🪷 उत्तरकाण्ड · Sarga 46

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 46 · 34 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.46.1
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥७-४६-१॥
Vālmīki 7.46.2
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे ।स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥७-४६-२॥
Vālmīki 7.46.3
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ॥७-४६-३॥
Vālmīki 7.46.4
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥७-४६-४॥
Vālmīki 7.46.5
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् ।रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥७-४६-५॥
Vālmīki 7.46.6
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ।प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥७-४६-६॥
Vālmīki 7.46.7
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः ।नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ॥७-४६-७॥
Vālmīki 7.46.8
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् ।शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ।अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ॥७-४६-८॥
Vālmīki 7.46.9
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ॥७-४६-९॥
Vālmīki 7.46.10
वासांसि च महार्हाणि रत्नानि विविधानि च ।गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥७-४६-१०॥
Vālmīki 7.46.11
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् ।वस्त्राणि च महार्हाणि धनानि विविधानि च ॥७-४६-११॥
Vālmīki 7.46.12
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ॥७-४६-१२॥
Vālmīki 7.46.13
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।अशुभानि बहून्येव पश्यामि रघुनन्दन ॥७-४६-१३॥
Vālmīki 7.46.14
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥७-४६-१४॥
Vālmīki 7.46.15
औत्सुक्यं परमं चापि अधृतिश्च परा मम ।शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ॥७-४६-१५॥
Vālmīki 7.46.16
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥७-४६-१६॥
Vālmīki 7.46.17
पुरे जनपदे चैव कुशलं प्राणिनामपि ।इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥७-४६-१७॥
Vālmīki 7.46.18
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् ।शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥७-४६-१८॥
Vālmīki 7.46.19
ततो वासमुपागम्य गोमतीतीर आश्रमे ।प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥७-४६-१९॥
Vālmīki 7.46.20
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥७-४६-२०॥
Vālmīki 7.46.21
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् ।आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ॥७-४६-२१॥
Vālmīki 7.46.22
सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥७-४६-२२॥
Vālmīki 7.46.23
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् ।अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥७-४६-२३॥
Vālmīki 7.46.24
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ॥७-४६-२४॥
Vālmīki 7.46.25
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥७-४६-२५॥
Vālmīki 7.46.26
जाह्नवीतीरमासाद्य चिराभिलषितं मम ।हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥७-४६-२६॥
Vālmīki 7.46.27
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ ।कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥७-४६-२७॥
Vālmīki 7.46.28
ममापि दयितो रामो जीवितादपि लक्ष्मण ।न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥७-४६-२८॥
Vālmīki 7.46.29
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ॥७-४६-२९॥
Vālmīki 7.46.30
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ।तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥७-४६-३०॥
Vālmīki 7.46.31
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् ।त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ॥७-४६-३१॥
Vālmīki 7.46.32
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ।नाविकानाह्वयामास लक्ष्मणः परवीरहा ॥७-४६-३२॥
Vālmīki 7.46.33
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ॥७-४६-३३॥
Vālmīki 7.46.34
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ।गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ॥७-४६-३४॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷