🪷 उत्तरकाण्ड · Sarga 45

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 45 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.45.1
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥७-४५-१॥
Vālmīki 7.45.2
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा ।पौराणां मम सीतायां यादृशी वर्तते कथा ॥७-४५-२॥
Vālmīki 7.45.3
पौरापवादः सुमहांस्तथा जनपदस्य च ।वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥७-४५-३॥
Vālmīki 7.45.4
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ॥७-४५-४॥
Vālmīki 7.45.5
जानासि त्वं यथा सौम्य दण्डके विजने वने ।रावणेन हृता सीता स च विध्वंसितो मया ॥७-४५-५॥
Vālmīki 7.45.6
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥७-४५-६॥
Vālmīki 7.45.7
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥७-४५-७॥
Vālmīki 7.45.8
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥७-४५-८॥
Vālmīki 7.45.9
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ।लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥७-४५-९॥
Vālmīki 7.45.10
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥७-४५-१०॥
Vālmīki 7.45.11
अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।पौरापवादः सुमहांस्तथा जनपदस्य च ॥७-४५-११॥
Vālmīki 7.45.12
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥७-४५-१२॥
Vālmīki 7.45.13
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥७-४५-१३॥
Vālmīki 7.45.14
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥७-४५-१४॥
Vālmīki 7.45.15
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ॥७-४५-१५॥
Vālmīki 7.45.16
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥७-४५-१६॥
Vālmīki 7.45.17
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ॥७-४५-१७॥
Vālmīki 7.45.18
तत्रैनां विजने देशे विसृज्य रघुनन्दन ।शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥७-४५-१८॥
Vālmīki 7.45.19
न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन ।तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥७-४५-१९॥
Vālmīki 7.45.20
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते ।शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥७-४५-२०॥
Vālmīki 7.45.21
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ।अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥७-४५-२१॥
Vālmīki 7.45.22
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ॥७-४५-२२॥
Vālmīki 7.45.23
पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् ।पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥७-४५-२३॥
Vālmīki 7.45.24
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ॥७-४५-२४॥
Vālmīki 7.45.25
शोकसंलग्नहृदयो निशश्वास यथा द्विपः ॥७-४५-२५॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷