🪷 उत्तरकाण्ड · Sarga 44

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 44 · 21 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.44.1
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥७-४४-१॥
Vālmīki 7.44.2
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।भरतं च महाभागं शत्रुघ्नमपराजितम् ॥७-४४-२॥
Vālmīki 7.44.3
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥७-४४-३॥
Vālmīki 7.44.4
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥७-४४-४॥
Vālmīki 7.44.5
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥७-४४-५॥
Vālmīki 7.44.6
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥७-४४-६॥
Vālmīki 7.44.7
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ॥७-४४-७॥
Vālmīki 7.44.8
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली ।दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥७-४४-८॥
Vālmīki 7.44.9
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥७-४४-९॥
Vālmīki 7.44.10
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ।श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ॥७-४४-१०॥
Vālmīki 7.44.11
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ।द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ।निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ॥७-४४-११॥
Vālmīki 7.44.12
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ॥७-४४-१२॥
Vālmīki 7.44.13
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥७-४४-१३॥
Vālmīki 7.44.14
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः ।प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥७-४४-१४॥
Vālmīki 7.44.15
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥७-४४-१५॥
Vālmīki 7.44.16
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥७-४४-१६॥
Vālmīki 7.44.17
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ॥७-४४-१७॥
Vālmīki 7.44.18
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ॥७-४४-१८॥
Vālmīki 7.44.19
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥७-४४-१९॥
Vālmīki 7.44.20
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ॥७-४४-२०॥
Vālmīki 7.44.21
तथा वदति काकुत्स्थे अवधानपरायणाः ।उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ॥७-४४-२१॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷