🪷 उत्तरकाण्ड · Sarga 43
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 43 · 23 ślokas
🪷 Devanāgarī Ślokas
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥७-४३-१॥
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः ।सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ॥७-४३-२॥
एते कथा बहुविधाः परिहाससमन्विताः ।कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥७-४३-३॥
ततः कथायां कस्याञ्चिद्राघवः समभाषत ।काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥७-४३-४॥
मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ॥७-४३-५॥
किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् ।वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ॥७-४३-६॥
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ॥७-४३-७॥
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥७-४३-८॥
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।कथयस्व यथातत्त्वं सर्वं निरवशेषतः ॥७-४३-९॥
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ॥७-४३-१०॥
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।कथयन्ति यथा पौराः पापा जनपदेषु च ॥७-४३-११॥
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥७-४३-१२॥
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।चत्वरापणरथ्यासु वनेषूपवनेषु च ॥७-४३-१३॥
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥७-४३-१४॥
रावणश्च दुराधर्षो हतः सबलवाहनः ।वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥७-४३-१५॥
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥७-४३-१६॥
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥७-४३-१७॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥७-४३-१८॥
अस्माकमपि दारेषु सहनीयं भविष्यति ।यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥७-४३-१९॥
एवं बहुविधा वाचो वदन्ति पुरवासिनः ।नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥७-४३-२०॥
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ॥७-४३-२१॥
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥७-४३-२२॥
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥७-४३-२३॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 42
- Next: Uttara-Kāṇḍa Sarga 44 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷