🪷 उत्तरकाण्ड · Sarga 40
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 40 · 30 ślokas
🪷 Devanāgarī Ślokas
तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥७-४०-१॥
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।पालयस्व सहामात्यो राज्यं निहतकण्टकम् ॥७-४०-२॥
अङ्गदं च महाबाहो प्रीत्या परमया युतः ।पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥७-४०-३॥
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥७-४०-४॥
वीरं शतवलिं चैव मैन्दं द्विविदमेव च ।गजं गवाक्षं गवयं शरभं च महाबलम् ।पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥७-४०-५॥
ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् ।ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ॥७-४०-६॥
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥७-४०-७॥
एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः ।विभीषणमुवाचाथ रामो मधुरया गिरा ॥७-४०-८॥
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ॥७-४०-९॥
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन ।बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥७-४०-१०॥
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥७-४०-११॥
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥७-४०-१२॥
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ॥७-४०-१३॥
तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् ।हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ॥७-४०-१४॥
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥७-४०-१५॥
वायद्रामकथा वीर चरिष्यति महीतले ।तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥७-४०-१६॥
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन ।तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥७-४०-१७॥
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो ।उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥७-४०-१८॥
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥७-४०-१९॥
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ।चरिष्यति कथा यावदेषा लोके च मामिका ।तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ॥७-४०-२०॥
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ॥७-४०-२१॥
लोके च मामिका ।एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ॥७-४०-२२॥
ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥७-४०-२३॥
तेनोरसि निबद्धेन हारेण महता कपिः ।रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥७-४०-२४॥
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥७-४०-२५॥
सुग्रीवः स च रामेण निरन्तरमुरोगतः ।विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ॥७-४०-२६॥
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ॥७-४०-२७॥
कृतप्रसादास्तेनैवं राघवेण महात्मना ।जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥७-४०-२८॥
ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ।वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ॥७-४०-२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ।। ४० ।। ॥७-४०-३०॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 39
- Next: Uttara-Kāṇḍa Sarga 41 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷