🪷 उत्तरकाण्ड · Sarga 39
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 39 · 30 ślokas
🪷 Devanāgarī Ślokas
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ॥७-३९-१॥
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः ।भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ॥७-३९-२॥
ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ॥७-३९-३॥
भरतेन वयं पश्चात्समानीता निरर्थकम् ।हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ॥७-३९-४॥
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ॥७-३९-५॥
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥७-३९-६॥
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥७-३९-७॥
यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ॥७-३९-८॥
अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥७-३९-९॥
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ॥७-३९-१०॥
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः ।आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ॥७-३९-११॥
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥७-३९-१२॥
प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः ।सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥७-३९-१३॥
बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः ।राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥७-३९-१४॥
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥७-३९-१५॥
हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः ।अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ॥७-३९-१६॥
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ।अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ॥७-३९-१७॥
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ ।अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥७-३९-१८॥
इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः ।स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥७-३९-१९॥
आभाष्य च महावीर्यान्राघवो यूथपर्षभान् ।नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥७-३९-२०॥
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ॥७-३९-२१॥
वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥७-३९-२२॥
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ॥७-३९-२३॥
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः ।धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥७-३९-२४॥
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥७-३९-२५॥
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।मांसानि च सुमृष्टानि मूलानि च फलानि च ॥७-३९-२६॥
एवं तेषां निवसतां मासः साग्रो ययौ तदा ।मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ॥७-३९-२७॥
रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ॥७-३९-२८॥
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥७-३९-२९॥
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥७-३९-३०॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 38
- Next: Uttara-Kāṇḍa Sarga 40 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷