🪷 उत्तरकाण्ड · Sarga 41

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 41 · 22 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.41.1
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् ।भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥७-४१-१॥
Vālmīki 7.41.2
अथापराह्णसमये भ्रातृभिः सह राघवः ।शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ॥७-४१-२॥
Vālmīki 7.41.3
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ।कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥७-४१-३॥
Vālmīki 7.41.4
तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति ।उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ॥७-४१-४॥
Vālmīki 7.41.5
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥७-४१-५॥
Vālmīki 7.41.6
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि ।रावणे सगणे चैव सपुत्रे सहबान्धवे ॥७-४१-६॥
Vālmīki 7.41.7
स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥७-४१-७॥
Vālmīki 7.41.8
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् ।वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥७-४१-८॥
Vālmīki 7.41.9
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः ।त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥७-४१-९॥
Vālmīki 7.41.10
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया ।चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥७-४१-१०॥
Vālmīki 7.41.11
एवमुक्तस्तदा रामः पुष्पकेण महाबलः ।उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥७-४१-११॥
Vālmīki 7.41.12
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक ।आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ॥७-४१-१२॥
Vālmīki 7.41.13
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः ।पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥७-४१-१३॥
Vālmīki 7.41.14
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा ।सिद्धानां च गतौ सौम्य मा विषादेन योजय ।प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ॥७-४१-१४॥
Vālmīki 7.41.15
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् ।अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥७-४१-१५॥
Vālmīki 7.41.16
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ।भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥७-४१-१६॥
Vālmīki 7.41.17
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥७-४१-१७॥
Vālmīki 7.41.18
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् ।जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥७-४१-१८॥
Vālmīki 7.41.19
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः ।हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥७-४१-१९॥
Vālmīki 7.41.20
काले वर्षति पर्जन्यः पातयन्नमृतं पयः ।वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ॥७-४१-२०॥
Vālmīki 7.41.21
ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः ।कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥७-४१-२१॥
Vālmīki 7.41.22
एता वाचः सुमधुरा भरतेन समीरिताः ।श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥७-४१-२२॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷