🪷 उत्तरकाण्ड · Sarga 36
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 36 · 63 ślokas
🪷 Devanāgarī Ślokas
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः ।शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥७-३६-१॥
चलकुण्डलमौलिस्रक्तपनीयविभूषणः ।पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ॥७-३६-२॥
तं तु वेदविदा तेन लम्बाभरणशोभिना ।वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥७-३६-३॥
स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना ।जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥७-३६-४॥
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा ।चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥७-३६-५॥
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् ।शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥७-३६-६॥
ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः ।उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥७-३६-७॥
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः ।जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ॥७-३६-८॥
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति ।तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ॥७-३६-९॥
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः ।कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ॥७-३६-१०॥
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ।नाम्ना वै कपिशार्दूलो भविता हनुमानिति ॥७-३६-११॥
अहमस्य प्रदास्यामि परमं वरमद्भुतम् ।इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ॥७-३६-१२॥
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ।तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ॥७-३६-१३॥
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ।तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ॥७-३६-१४॥
नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने ।वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ।वर्षायुतशतेनापि मत्पाशादुदकादपि ॥७-३६-१५॥
यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः ।वरं ददामि सन्तुष्ट अविषादं च संयुगे ॥७-३६-१६॥
गदेयं मामिका नैनं संयुगेषु वधिष्यति ।इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥७-३६-१७॥
मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति ।इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ॥७-३६-१८॥
सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति ।दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ॥७-३६-१९॥
विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् ।शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ॥७-३६-२०॥
मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे ।तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ॥७-३६-२१॥
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् ।चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ॥७-३६-२२॥
अमित्राणां भयकरो मित्राणामभयङ्करः ।अजेयो भविता पुत्रस्तव मारुत मारुतिः ॥७-३६-२३॥
कामरूपः कामचारी कामगः प्लवतां वरः ।भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ॥७-३६-२४॥
रावणोत्सादनार्थानि रामप्रियकरणि च ।रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥७-३६-२५॥
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह ।यथागतं ययुः सर्वे पितामहपुरोगमाः ॥७-३६-२६॥
सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ।अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ॥७-३६-२७॥
प्राप्य राम वरानेष वरदानसमन्वितः ।बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ॥७-३६-२८॥
तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः ।आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥७-३६-२९॥
स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् ।भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ॥७-३६-३०॥
एवंविधानि कर्माणि प्रावर्तत महाबलः ।सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ॥७-३६-३१॥
जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ॥७-३६-३२॥
यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः ।प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ॥७-३६-३३॥
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः ।शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ॥७-३६-३४॥
बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम ।तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ।यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ॥७-३६-३५॥
ततस्स हृततेजौजा महर्षिवचनौजसा ।एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ॥७-३६-३६॥
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता ।सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ॥७-३६-३७॥
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः ।स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ॥७-३६-३८॥
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः ।पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ॥७-३६-३९॥
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ।आबाल्यं सख्यमभवदनिलस्याग्निना यथा ॥७-३६-४०॥
एष शापवशादेव न वेद बलमात्मनः ।वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥७-३६-४१॥
न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ॥७-३६-४२॥
देव जानाति न ह्येष बलमात्मनि मारुतिः ।ऋषिशापाहृतबलस्तदैष कपिसत्तमः ॥७-३६-४३॥
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ॥७-३६-४४॥
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ।गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ॥७-३६-४५॥
असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः ।उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ॥७-३६-४६॥
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः ।नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ॥७-३६-४७॥
सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् ।सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ॥७-३६-४८॥
प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥७-३६-४९॥
एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः ।सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ॥७-३६-५०॥
तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ।हनूमतो बालभावे कर्मैतत्कथितं मया ॥७-३६-५१॥
श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च ।विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ॥७-३६-५२॥
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया ।दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ॥७-३६-५३॥
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः ।प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ॥७-३६-५४॥
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः ।युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ॥७-३६-५५॥
विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः ।तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ॥७-३६-५६॥
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः ।क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ॥७-३६-५७॥
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् ।भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ॥७-३६-५८॥
अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् ।अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ॥७-३६-५९॥
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः ।अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ॥७-३६-६०॥
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ॥७-३६-६१॥
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् ।राघवश्च तमेवार्थं चिन्तयामास विस्मितः ॥७-३६-६२॥
ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् ।सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः ।प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ॥७-३६-६३॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 35
- Next: Uttara-Kāṇḍa Sarga 37 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷