🪷 उत्तरकाण्ड · Sarga 37

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 37 · 24 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.37.1
अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि ।व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥७-३७-१॥
Vālmīki 7.37.2
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः ।वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥७-३७-२॥
Vālmīki 7.37.3
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ।तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ॥७-३७-३॥
Vālmīki 7.37.4
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन ।जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥७-३७-४॥
Vālmīki 7.37.5
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव ।बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥७-३७-५॥
Vālmīki 7.37.6
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः ।वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥७-३७-६॥
Vālmīki 7.37.7
अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥७-३७-७॥
Vālmīki 7.37.8
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ।न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ॥७-३७-८॥
Vālmīki 7.37.9
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ।एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ॥७-३७-९॥
Vālmīki 7.37.10
सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् ।स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥७-३७-१०॥
Vālmīki 7.37.11
स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् ।उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ॥७-३७-११॥
Vālmīki 7.37.12
तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः ।सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ॥७-३७-१२॥
Vālmīki 7.37.13
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः ।देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ॥७-३७-१३॥
Vālmīki 7.37.14
तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि ।बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ॥७-३७-१४॥
Vālmīki 7.37.15
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः ।वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ॥७-३७-१५॥
Vālmīki 7.37.16
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः ।रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः ॥७-३७-१६॥
Vālmīki 7.37.17
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः ।उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ॥७-३७-१७॥
Vālmīki 7.37.18
याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः ।मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ॥७-३७-१८॥
Vālmīki 7.37.19
वानराश्च महावीर्या विंशतिः कामरूपिणः ।सुग्रीवप्रमुखा राममुपासन्ते महौजसः ॥७-३७-१९॥
Vālmīki 7.37.20
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः ।उपासते महात्मानं धनेशमिव गुह्यकाः ॥७-३७-२०॥
Vālmīki 7.37.21
तथा निगमवृद्धाश्च कुलीना ये च मानवाः ।शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः ॥७-३७-२१॥
Vālmīki 7.37.22
तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः ।राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ॥७-३७-२२॥
Vālmīki 7.37.23
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते ।अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ॥७-३७-२३॥
Vālmīki 7.37.24
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ।कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ॥७-३७-२४॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷