🪷 उत्तरकाण्ड · Sarga 35

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 35 · 65 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.35.1
अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् ।प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ॥७-३५-१॥
Vālmīki 7.35.2
अतुलं बलमेतद्वै वालिनो रावणस्य च ।न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥७-३५-२॥
Vālmīki 7.35.3
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥७-३५-३॥
Vālmīki 7.35.4
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् ।समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥७-३५-४॥
Vālmīki 7.35.5
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ।दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥७-३५-५॥
Vālmīki 7.35.6
सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः ।एते हनुमता तत्र ह्येकेन वितिपातिताः ॥७-३५-६॥
Vālmīki 7.35.7
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् ।लङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥७-३५-७॥
Vālmīki 7.35.8
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥७-३५-८॥
Vālmīki 7.35.9
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥७-३५-९॥
Vālmīki 7.35.10
हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा ।प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥७-३५-१०॥
Vālmīki 7.35.11
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया ।तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥७-३५-११॥
Vālmīki 7.35.12
नहि वेदितवान्मन्ये हनूमानात्मनो बलम् ।यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥७-३५-१२॥
Vālmīki 7.35.13
एतन्मे भगवन्सर्वं हनूमति महामतौ ।विस्तरेण यथातत्त्वं कथयामरपूजित ॥७-३५-१३॥
Vālmīki 7.35.14
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा ।हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥७-३५-१४॥
Vālmīki 7.35.15
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।न बले विद्यते तुल्यो न गतौ न मतौ परः ॥७-३५-१५॥
Vālmīki 7.35.16
अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा ।न वेत्ता हि बलं येन बली सन्निरिमर्दनः ॥७-३५-१६॥
Vālmīki 7.35.17
बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल ।तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ॥७-३५-१७॥
Vālmīki 7.35.18
यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ।समाधाय मतिं राम निशामय वदाम्यहम् ॥७-३५-१८॥
Vālmīki 7.35.19
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥७-३५-१९॥
Vālmīki 7.35.20
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ।जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥७-३५-२०॥
Vālmīki 7.35.21
शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना ।फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥७-३५-२१॥
Vālmīki 7.35.22
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥७-३५-२२॥
Vālmīki 7.35.23
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥७-३५-२३॥
Vālmīki 7.35.24
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ॥७-३५-२४॥
Vālmīki 7.35.25
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥७-३५-२५॥
Vālmīki 7.35.26
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ।यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ॥७-३५-२६॥
Vālmīki 7.35.27
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः ।यौवनं बलमासाद्य कथं वेगो भविष्यति ॥७-३५-२७॥
Vālmīki 7.35.28
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥७-३५-२८॥
Vālmīki 7.35.29
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् ।पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥७-३५-२९॥
Vālmīki 7.35.30
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥७-३५-३०॥
Vālmīki 7.35.31
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥७-३५-३१॥
Vālmīki 7.35.32
अनेन स परामृष्टो राम सूर्यरथोपरि ।अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥७-३५-३२॥
Vālmīki 7.35.33
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥७-३५-३३॥
Vālmīki 7.35.34
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥७-३५-३४॥
Vālmīki 7.35.35
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥७-३५-३५॥
Vālmīki 7.35.36
स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः ।उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ॥७-३५-३६॥
Vālmīki 7.35.37
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥७-३५-३७॥
Vālmīki 7.35.38
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥७-३५-३८॥
Vālmīki 7.35.39
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ॥७-३५-३९॥
Vālmīki 7.35.40
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च ।उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥७-३५-४०॥
Vālmīki 7.35.41
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् ।अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ॥७-३५-४१॥
Vālmīki 7.35.42
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ॥७-३५-४२॥
Vālmīki 7.35.43
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् ।श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥७-३५-४३॥
Vālmīki 7.35.44
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥७-३५-४४॥
Vālmīki 7.35.45
तथास्य धावतो रूपमैरावतजिघृक्षया ।मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥७-३५-४५॥
Vālmīki 7.35.46
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥७-३५-४६॥
Vālmīki 7.35.47
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।पतमानस्य चैतस्य वामो हनुरभज्यत ॥७-३५-४७॥
Vālmīki 7.35.48
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥७-३५-४८॥
Vālmīki 7.35.49
प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः ।गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥७-३५-४९॥
Vālmīki 7.35.50
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् ।रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥७-३५-५०॥
Vālmīki 7.35.51
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥७-३५-५१॥
Vālmīki 7.35.52
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् ।वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ॥७-३५-५२॥
Vālmīki 7.35.53
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥७-३५-५३॥
Vālmīki 7.35.54
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः ।त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥७-३५-५४॥
Vālmīki 7.35.55
त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः ।सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ॥७-३५-५५॥
Vālmīki 7.35.56
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ॥७-३५-५६॥
Vālmīki 7.35.57
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ॥७-३५-५७॥
Vālmīki 7.35.58
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ।प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥७-३५-५८॥
Vālmīki 7.35.59
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ॥७-३५-५९॥
Vālmīki 7.35.60
अशरीरः शरीरेषु वायुश्चरति पालयन् ।शरीरं हि विना वायुं समतां याति दारुभिः ॥७-३५-६०॥
Vālmīki 7.35.61
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥७-३५-६१॥
Vālmīki 7.35.62
अद्यैव च परित्यक्तं वायुना जगदायुषा ।अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥७-३५-६२॥
Vālmīki 7.35.63
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ।मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥७-३५-६३॥
Vālmīki 7.35.64
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ।जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥७-३५-६४॥
Vālmīki 7.35.65
ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥७-३५-६५॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷