🪷 उत्तरकाण्ड · Sarga 34

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 34 · 46 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.34.1
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥७-३४-१॥
Vālmīki 7.34.2
राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् ।रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥७-३४-२॥
Vālmīki 7.34.3
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ॥७-३४-३॥
Vālmīki 7.34.4
ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ।उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥७-३४-४॥
Vālmīki 7.34.5
राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् ।को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥७-३४-५॥
Vālmīki 7.34.6
चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण ।इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥७-३४-६॥
Vālmīki 7.34.7
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः ।युद्धार्थिनामिमे राजन्वानराधिपतेजसा ॥७-३४-७॥
Vālmīki 7.34.8
यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस ।तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥७-३४-८॥
Vālmīki 7.34.9
पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत ।इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ॥७-३४-९॥
Vālmīki 7.34.10
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ॥७-३४-१०॥
Vālmīki 7.34.11
स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः ।पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥७-३४-११॥
Vālmīki 7.34.12
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ॥७-३४-१२॥
Vālmīki 7.34.13
पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः ।ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ॥७-३४-१३॥
Vālmīki 7.34.14
यदृच्छया तदा दृष्टो वालिनापि स रावणः ।पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ॥७-३४-१४॥
Vālmīki 7.34.15
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥७-३४-१५॥
Vālmīki 7.34.16
जिघृक्षमाणमायान्तं रावणं पापचेतसम् ।कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ॥७-३४-१६॥
Vālmīki 7.34.17
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् ।लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥७-३४-१७॥
Vālmīki 7.34.18
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ॥७-३४-१८॥
Vālmīki 7.34.19
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥७-३४-१९॥
Vālmīki 7.34.20
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् ।पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ॥७-३४-२०॥
Vālmīki 7.34.21
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥७-३४-२१॥
Vālmīki 7.34.22
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः ।जहार रावणं वाली पवनस्तोयदं यथा ॥७-३४-२२॥
Vālmīki 7.34.23
अथ ते राक्षसामात्या ह्रियमाणं दशाननम् ।मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ॥७-३४-२३॥
Vālmīki 7.34.24
अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः ।अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥७-३४-२४॥
Vālmīki 7.34.25
ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः ।तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ॥७-३४-२५॥
Vālmīki 7.34.26
वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः ।किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ॥७-३४-२६॥
Vālmīki 7.34.27
अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः ।क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ॥७-३४-२७॥
Vālmīki 7.34.28
सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः ।पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥७-३४-२८॥
Vālmīki 7.34.29
तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः ।उत्तरं सागरं प्रायाद्वहमानो दशाननम् ॥७-३४-२९॥
Vālmīki 7.34.30
बहुयोजनसाहस्रं वहमानो महाहरिः ।वायुवच्च मनोवच्च जगाम सह शत्रुणा ॥७-३४-३०॥
Vālmīki 7.34.31
उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् ।वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ॥७-३४-३१॥
Vālmīki 7.34.32
तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः ।किष्किन्धामभितो गृह्य रावणं पुनरागमत् ॥७-३४-३२॥
Vālmīki 7.34.33
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः ।रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ॥७-३४-३३॥
Vālmīki 7.34.34
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ॥७-३४-३४॥
Vālmīki 7.34.35
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः ।राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ॥७-३४-३५॥
Vālmīki 7.34.36
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः ।युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ॥७-३४-३६॥
Vālmīki 7.34.37
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ।येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ॥७-३४-३७॥
Vālmīki 7.34.38
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् ।मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ॥७-३४-३८॥
Vālmīki 7.34.39
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम ।मनोनिलसुपर्णानां तव चात्र न संशयः ॥७-३४-३९॥
Vālmīki 7.34.40
सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव ।त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥७-३४-४०॥
Vālmīki 7.34.41
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ।सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥७-३४-४१॥
Vālmīki 7.34.42
ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ ।भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ॥७-३४-४२॥
Vālmīki 7.34.43
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ।किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ॥७-३४-४३॥
Vālmīki 7.34.44
स तत्र मासमुषितः सुग्रीव इव रावणः ।अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ॥७-३४-४४॥
Vālmīki 7.34.45
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो ।धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ॥७-३४-४५॥
Vālmīki 7.34.46
बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् ।सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ॥७-३४-४६॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷