🪷 उत्तरकाण्ड · Sarga 33
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 33 · 23 ślokas
🪷 Devanāgarī Ślokas
रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥७-३३-१॥
ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः ।माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ॥७-३३-२॥
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ॥७-३३-३॥
सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् ।प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥७-३३-४॥
पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ।ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ॥७-३३-५॥
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः ।शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥७-३३-६॥
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च ।पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥७-३३-७॥
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ।अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ॥७-३३-८॥
स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च ।पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥७-३३-९॥
अद्यैवममरावत्या तुल्या माहिष्मती कृता ।अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥७-३३-१०॥
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् ।अद्य मे सफलं जन्म अद्य मे सफलं तपः ।यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव ॥७-३३-११॥
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥७-३३-१२॥
तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् ।पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ॥७-३३-१३॥
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन ।अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥७-३३-१४॥
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ ।सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥७-३३-१५॥
पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया ।मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ॥७-३३-१६॥
पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः ।मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥७-३३-१७॥
स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः ।अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥७-३३-१८॥
पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् ।परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥७-३३-१९॥
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः ।मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ॥७-३३-२०॥
एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् ।पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥७-३३-२१॥
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ।नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ॥७-३३-२२॥
ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ।पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥७-३३-२३॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 32
- Next: Uttara-Kāṇḍa Sarga 34 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷