🪷 उत्तरकाण्ड · Sarga 30
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 30 · 55 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 7.30local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै ।प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ।। ७.३०.१ ॥
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् ।अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ।। ७.३०.२ ॥
वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे ।अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ।। ७.३०.३ ॥
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ।। ७.३०.४ ॥
अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् ।जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ।। ७.३०.५ ॥
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः ।यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ।। ७.३०.६ ॥
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ।। ७.३०.७ ॥
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः ।अमरत्वमहं देव वृणे यद्येष मुच्यते ।। ७.३०.८ ॥
चतुष्पदां खेचराणामन्येषां वा महौजसाम् ।वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ।। ७.३०.९ ॥
सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति ।अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ।। ७.३०.१० ॥
ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः ।नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ।चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ।। ७.३०.११ ॥
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ।। ७.३०.१२ ॥
्वं हि कस्यचित्प्राणिनो भुवि ।अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः ।श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ।। ७.३०.१३ ॥
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् ।सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ।। ७.३०.१४ ॥
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः ।तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ।। ७.३०.१५ ॥
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ ।युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ।। ७.३०.१६ ॥
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् ।विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ।। ७.३०.१७ ॥
एवमस्त्विति तं चाह वाक्यं देवः पितामहः ।मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ।। ७.३०.१८ ॥
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः ।इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ।। ७.३०.१९ ॥
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ।शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ।। ७.३०.२० ॥
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो ।एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ।। ७.३०.२१ ॥
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा ।ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ।। ७.३०.२२ ॥
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ।। ७.३०.२३ ॥
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ।। ७.३०.२४ ॥
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता ।अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ।। ७.३०.२५ ॥
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ ।भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ।। ७.३०.२६ ॥
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।स्थानाधिकतया पत्नी ममैषेति पुरन्दर ।। ७.३०.२७ ॥
सा मया न्यासभूता तु गौतमस्य महात्मनः ।न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ।। ७.३०.२८ ॥
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः ।ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ।। ७.३०.२९ ॥
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः ।दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ।। ७.३०.३० ॥
सा त्वया धर्षिता शक्र कामार्तेन समन्युना ।दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ।। ७.३०.३१ ॥
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा ।गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ।। ७.३०.३२ ॥
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ।। ७.३०.३३ ॥
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।मानुषेष्वपि लोकेषु भविष्यति न संशयः ।। ७.३०.३४ ॥
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ।न च ते स्थावरं स्थानं भविष्यति न संशयः ।। ७.३०.३५ ॥
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ।एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ।। ७.३०.३६ ॥
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः ।दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ।। ७.३०.३७ ॥
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता ।तस्माद्रूपवती लोके न त्वमेका भविष्यति ।। ७.३०.३८ ॥
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ।यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ।। ७.३०.३९ ॥
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।सा तं प्रसादयामास महर्षिं गौतमं तदा ।। ७.३०.४० ॥
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा ।न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ।। ७.३०.४१ ॥
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः ।उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ।। ७.३०.४२ ॥
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ।ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः ।तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ।। ७.३०.४३ ॥
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् ।तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ।। ७.३०.४४ ॥
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि ।एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ।। ७.३०.४५ ॥
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः ।शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ।। ७.३०.४६ ॥
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ।। ७.३०.४७ ॥
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः ।पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ।। ७.३०.४८ ॥
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।नीतः सन्निहितश्चैव आर्यकेण महोदधौ ।। ७.३०.४९ ॥
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ।। ७.३०.५० ॥
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ।निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ।। ७.३०.५१ ॥
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा ।अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ।। ७.३०.५२ ॥
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ।। ७.३०.५३ ॥
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ।। ७.३०.५४ ॥
एवं राम समुद्भूतो रावणो लोककण्टकः ।सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ।। ७.३०.५५ ।।
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 29
- Next: Uttara-Kāṇḍa Sarga 31 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷