🪷 उत्तरकाण्ड · Sarga 29

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 29 · 42 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 7.29local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.29.1
ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः ।अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ।। ७.२९.१ ॥
Vālmīki 7.29.2
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् ।दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ।। ७.२९.२ ॥
Vālmīki 7.29.3
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः ।अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ।। ७.२९.३ ॥
Vālmīki 7.29.4
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ।तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ।। ७.२९.४ ॥
Vālmīki 7.29.5
स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् ।क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ।। ७.२९.५ ॥
Vālmīki 7.29.6
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह ।परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ।। ७.२९.६ ॥
Vālmīki 7.29.7
अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् ।नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ।। ७.२९.७ ॥
Vālmīki 7.29.8
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् ।त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि ।विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ।। ७.२९.८ ॥
Vālmīki 7.29.9
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ।। ७.२९.९ ॥
Vālmīki 7.29.10
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ।नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ।। ७.२९.१० ॥
Vālmīki 7.29.11
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् ।आदिदेशाथ शत्रणां मध्येनैव च सारथिः ।। ७.२९.११ ॥
Vālmīki 7.29.12
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ।रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ।। ७.२९.१२ ॥
Vālmīki 7.29.13
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ।जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ।। ७.२९.१३ ॥
Vālmīki 7.29.14
एष ह्यतिबलः सैन्यै रथेन पवनौजसा ।गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ।। ७.२९.१४ ॥
Vālmīki 7.29.15
नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः ।तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ।। ७.२९.१५ ॥
Vālmīki 7.29.16
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया ।एवमेतस्य पापस्य निरोधो मम रोचते ।। ७.२९.१६ ॥
Vālmīki 7.29.17
ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् ।अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ।। ७.२९.१७ ॥
Vālmīki 7.29.18
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः ।दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ।। ७.२९.१८ ॥
Vālmīki 7.29.19
ततः स योजनशतं प्रविष्टो राक्षसाधिपः ।देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। ७.२९.१९ ॥
Vālmīki 7.29.20
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् ।न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ।। ७.२९.२० ॥
Vālmīki 7.29.21
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ।हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ।। ७.२९.२१ ॥
Vālmīki 7.29.22
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः ।तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ।। ७.२९.२२ ॥
Vālmīki 7.29.23
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा ।प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ।। ७.२९.२३ ॥
Vālmīki 7.29.24
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत ।महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ।। ७.२९.२४ ॥
Vālmīki 7.29.25
विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः ।त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ।। ७.२९.२५ ॥
Vālmīki 7.29.26
स मातलिं समायान्तं ताडयित्वा शरोत्तमैः ।महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ।। ७.२९.२६ ॥
Vālmīki 7.29.27
ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् ।ऐरावतं समारुह्य मृगयामास रावणिम् ।। ७.२९.२७ ॥
Vālmīki 7.29.28
स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः ।इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ।। ७.२९.२८ ॥
Vālmīki 7.29.29
स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः ।तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ।। ७.२९.२९ ॥
Vālmīki 7.29.30
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् ।महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ।। ७.२९.३० ॥
Vālmīki 7.29.31
दृश्यते न स मायावी शक्रजित्समितिञ्जयः ।विद्यावानपि येनेन्द्रो मायया नीयते बलात् ।। ७.२९.३१ ॥
Vālmīki 7.29.32
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा ।रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ।। ७.२९.३२ ॥
Vālmīki 7.29.33
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा ।न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ।। ७.२९.३३ ॥
Vālmīki 7.29.34
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् ।रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ।। ७.२९.३४ ॥
Vālmīki 7.29.35
आगच्छ तात गच्छामो रणकर्म निवर्तताम् ।जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ।। ७.२९.३५ ॥
Vālmīki 7.29.36
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ।स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ।। ७.२९.३६ ॥
Vālmīki 7.29.37
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा ।वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ।। ७.२९.३७ ॥
Vālmīki 7.29.38
ततस्ते दैवतगणा निवृत्ता रणकर्मणः ।तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ।। ७.२९.३८ ॥
Vālmīki 7.29.39
अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ।स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ।। ७.२९.३९ ॥
Vālmīki 7.29.40
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ।। ७.२९.४० ॥
Vālmīki 7.29.41
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् ।अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ।। ७.२९.४१ ॥
Vālmīki 7.29.42
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ।स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ।। ७.२९.४२ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷