🪷 उत्तरकाण्ड · Sarga 28

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 28 · 49 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 7.28local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.28.1
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ।। ७.२८.१ ॥
Vālmīki 7.28.2
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा ।निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ।। ७.२८.२ ॥
Vālmīki 7.28.3
सुरथेनाग्निवर्णेन कामगेन महारथः ।अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ।। ७.२८.३ ॥
Vālmīki 7.28.4
ततः प्रविशतस्तस्य विविधायुधधारिणः ।विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ।। ७.२८.४ ॥
Vālmīki 7.28.5
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे ।सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ।। ७.२८.५ ॥
Vālmīki 7.28.6
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।एष गच्छति पुत्रो मे युद्धार्थमपराजितः ।। ७.२८.६ ॥
Vālmīki 7.28.7
ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ।। ७.२८.७ ॥
Vālmīki 7.28.8
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ।। ७.२८.८ ॥
Vālmīki 7.28.9
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् ।महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ।। ७.२८.९ ॥
Vālmīki 7.28.10
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।सारथौ पातयामास शरान्कनकभूषणान् ।। ७.२८.१० ॥
Vālmīki 7.28.11
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ।। ७.२८.११ ॥
Vālmīki 7.28.12
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।रावणिः शक्रतनयं शरवर्षैरवाकिरत् ।। ७.२८.१२ ॥
Vālmīki 7.28.13
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः ।पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ।। ७.२८.१३ ॥
Vālmīki 7.28.14
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।महान्ति गिरिशृङ्गाणि पातयामास रावणिः ।। ७.२८.१४ ॥
Vālmīki 7.28.15
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् ।तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ।। ७.२८.१५ ॥
Vālmīki 7.28.16
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।बहुप्रकारमस्वस्थमभवच्छरपीडितम् ।। ७.२८.१६ ॥
Vālmīki 7.28.17
नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा ।तत्र तत्र विपर्यस्तं समन्तात्परिधावति ।। ७.२८.१७ ॥
Vālmīki 7.28.18
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा ।सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ।। ७.२८.१८ ॥
Vālmīki 7.28.19
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् ।दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ।। ७.२८.१९ ॥
Vālmīki 7.28.20
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा ।आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ।। ७.२८.२० ॥
Vālmīki 7.28.21
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ।। ७.२८.२१ ॥
Vālmīki 7.28.22
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः ।अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ।। ७.२८.२२ ॥
Vālmīki 7.28.23
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।मातलिं चाह देवेशो रथः समुपनीयताम् ।। ७.२८.२३ ॥
Vālmīki 7.28.24
स तु दिव्यो महाभीमः सज्ज एव महारथः ।उपस्थितो मातलिना वाह्यमानो महाजवः ।। ७.२८.२४ ॥
Vālmīki 7.28.25
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः ।अग्रतो वायुचपला नेदुः परमनिःस्वनाः ।। ७.२८.२५ ॥
Vālmīki 7.28.26
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ।। ७.२८.२६ ॥
Vālmīki 7.28.27
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः ।वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ।। ७.२८.२७ ॥
Vālmīki 7.28.28
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ।। ७.२८.२८ ॥
Vālmīki 7.28.29
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ।। ७.२८.२९ ॥
Vālmīki 7.28.30
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः ।तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ।। ७.२८.३० ॥
Vālmīki 7.28.31
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः ।समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ।। ७.२८.३१ ॥
Vālmīki 7.28.32
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ।। ७.२८.३२ ॥
Vālmīki 7.28.33
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ।। ७.२८.३३ ॥
Vālmīki 7.28.34
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ।। ७.२८.३४ ॥
Vālmīki 7.28.35
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः ।येन केनैव संरब्धस्ताडयामास वै सुरान् ।। ७.२८.३५ ॥
Vālmīki 7.28.36
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः ।प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ।। ७.२८.३६ ॥
Vālmīki 7.28.37
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ।। ७.२८.३७ ॥
Vālmīki 7.28.38
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ।। ७.२८.३८ ॥
Vālmīki 7.28.39
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ।। ७.२८.३९ ॥
Vālmīki 7.28.40
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे ।शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ।। ७.२८.४० ॥
Vālmīki 7.28.41
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः ।देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ।। ७.२८.४१ ॥
Vālmīki 7.28.42
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः ।निहतानां प्रमत्तानां राक्षसानां महीतले ।। ७.२८.४२ ॥
Vālmīki 7.28.43
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला ।प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ।। ७.२८.४३ ॥
Vālmīki 7.28.44
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ।। ७.२८.४४ ॥
Vālmīki 7.28.45
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् ।त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ।। ७.२८.४५ ॥
Vālmīki 7.28.46
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् ।यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ।। ७.२८.४६ ॥
Vālmīki 7.28.47
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।निपातयामास शरान्पावकादित्यवर्चसः ।। ७.२८.४७ ॥
Vālmīki 7.28.48
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ।। ७.२८.४८ ॥
Vālmīki 7.28.49
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ।। ७.२८.४९ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷