🪷 उत्तरकाण्ड · Sarga 27
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 27 · 50 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 7.27local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः ।आससाद महातेजा इन्द्रलोकं निशाचरः ।। ७.२७.१ ॥
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ।। ७.२७.२ ॥
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् ।अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ।। ७.२७.३ ॥
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् ।सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ।। ७.२७.४ ॥
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ।। ७.२७.५ ॥
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ।। ७.२७.६ ॥
विष्णो कथं करिष्यामि महावीर्यपराक्रमः ।असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ।। ७.२७.७ ॥
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ।। ७.२७.८ ॥
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। ७.२७.९ ॥
नह्यन्यो देवदेवेश त्वामृते मधुसूदन ।गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ।। ७.२७.१० ॥
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। ७.२७.११ ॥
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ।। ७.२७.१२ ॥
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् ।अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ।। ७.२७.१३ ॥
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ।। ७.२७.१४ ॥
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः ।हन्तुं चापि समासाद्य वरदानेन दुर्जयः ।। ७.२७.१५ ॥
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ।। ७.२७.१६ ॥
यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर ।नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ।। ७.२७.१७ ॥
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते ।दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ।। ७.२७.१८ ॥
प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो ।भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ।। ७.२७.१९ ॥
अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् ।देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् ।एतत्ते कथितं तत्त्वं देवराज शचीपते ।। ७.२७.२० ॥
युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ।। ७.२७.२१ ॥
यामि ज्ञात्वा कालमुपागतम् ।ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ ।सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ।। ७.२७.२२ ॥
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ।। ७.२७.२३ ॥
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ।सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ।। ७.२७.२४ ॥
ततो दैवतसैन्यनां सङ्क्षोभः समजायत ।तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ।। ७.२७.२५ ॥
ततो युद्धं समभवेद्देवदानवरक्षसाम् ।घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ।। ७.२७.२६ ॥
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ।। ७.२७.२७ ॥
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।अकम्पनो निकुम्भश्च शुकः सारण एव च ।। ७.२७.२८ ॥
संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः ।जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ।। ७.२७.२९ ॥
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः ।त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ।। ७.२७.३० ॥
महाकायो ऽतिकायश्च देवान्तकनरान्तकौ ।एतैः सर्वैः परिवृतो महावीर्यो महाबलः ।। ७.२७.३१ ॥
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ।स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः ।व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ।। ७.२७.३२ ॥
तद्दैवतबलं राम हन्यमानं निशाचरैः ।प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ।। ७.२७.३३ ॥
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।सावित्र इति विख्यातः प्रविवेश रणाजिरम् ।। ७.२७.३४ ॥
तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ।निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ।। ७.२७.३५ ॥
ततो युद्धं समभवत्सुराणां सह राक्षसैः ।क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ।। ७.२७.३६ ॥
ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् ।नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ।। ७.२७.३७ ॥
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् ।समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ।। ७.२७.३८ ॥
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ।नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ।। ७.२७.३९ ॥
स दैवतबलं सर्वं नानाप्रहणैः शितैः ।व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ।। ७.२७.४० ॥
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ।हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ।। ७.२७.४१ ॥
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना ।वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ।। ७.२७.४२ ॥
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् ।विक्रमेण महातेजा वारयामास संयुगे ।। ७.२७.४३ ॥
ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।। ७.२७.४४ ॥
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ।ततस्तस्य महाबाणैर्वसुना सुमहात्मना ।निहतः पन्नगरथः क्षणेन विनिपातितः ।। ७.२७.४५ ॥
हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् ।गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ।। ७.२७.४६ ॥
ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ।तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ।। ७.२७.४७ ॥
सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा ।इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ।। ७.२७.४८ ॥
तस्य नैवास्थि न शिरो न मांसं ददृशे तदा ।गदया भस्मतां नीतं निहतस्य रणाजिरे ।। ७.२७.४९ ॥
तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ।व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् ।विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ।। ७.२७.५० ।।
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 26
- Next: Uttara-Kāṇḍa Sarga 28 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷