🪷 उत्तरकाण्ड · Sarga 26

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 26 · 61 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.26.1
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ।अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥७-२६-१॥
Vālmīki 7.26.2
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ॥७-२६-२॥
Vālmīki 7.26.3
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि ।स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ॥७-२६-३॥
Vālmīki 7.26.4
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा ।पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥७-२६-४॥
Vālmīki 7.26.5
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा ।चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः ।तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ॥७-२६-५॥
Vālmīki 7.26.6
आरग्वधैस्तमालैश्च प्रियालवकुलैरपि ।एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे ।किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ॥७-२६-६॥
Vālmīki 7.26.7
समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ॥७-२६-७॥
Vālmīki 7.26.8
भिरुद्भासितवनान्तरे ।विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ।योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ॥७-२६-८॥
Vālmīki 7.26.9
घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः ।अप्सरोगणसङ्घानां गायतां धनदालये ॥७-२६-९॥
Vālmīki 7.26.10
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ।शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥७-२६-१०॥
Vālmīki 7.26.11
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् ।प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ॥७-२६-११॥
Vālmīki 7.26.12
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् ।प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥७-२६-१२॥
Vālmīki 7.26.13
रावणस्तु महावीर्यः कामस्य वशमागतः ।विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ॥७-२६-१३॥
Vālmīki 7.26.14
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता ।सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ॥७-२६-१४॥
Vālmīki 7.26.15
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा ।दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ॥७-२६-१५॥
Vālmīki 7.26.16
चक्षुर्मनोहरं पीनं मेखलादामभूषितम् ।समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ॥७-२६-१६॥
Vālmīki 7.26.17
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ॥७-२६-१७॥
Vālmīki 7.26.18
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् ।नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ॥७-२६-१८॥
Vālmīki 7.26.19
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे ।ऊरू करिकराकारौ करौ पल्लवकोमलौ ।सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ॥७-२६-१९॥
Vālmīki 7.26.20
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः ।करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ॥७-२६-२०॥
Vālmīki 7.26.21
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ॥७-२६-२१॥
Vālmīki 7.26.22
त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ।सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ॥७-२६-२२॥
Vālmīki 7.26.23
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ।कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ॥७-२६-२३॥
Vālmīki 7.26.24
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ॥७-२६-२४॥
Vālmīki 7.26.25
मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ ।मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ॥७-२६-२५॥
Vālmīki 7.26.26
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ॥७-२६-२६॥
Vālmīki 7.26.27
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ॥७-२६-२७॥
Vālmīki 7.26.28
तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः ।भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ॥७-२६-२८॥
Vālmīki 7.26.29
एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥७-२६-२९॥
Vālmīki 7.26.30
अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ॥७-२६-३०॥
Vālmīki 7.26.31
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् ।रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ॥७-२६-३१॥
Vālmīki 7.26.32
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः ।बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ॥७-२६-३२॥
Vālmīki 7.26.33
धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव ।पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ।विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥७-२६-३३॥
Vālmīki 7.26.34
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् ।क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥७-२६-३४॥
Vālmīki 7.26.35
तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै ।तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ॥७-२६-३५॥
Vālmīki 7.26.36
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ॥७-२६-३६॥
Vālmīki 7.26.37
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ॥७-२६-३७॥
Vālmīki 7.26.38
स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः ।तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥७-२६-३८॥
Vālmīki 7.26.39
सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव ।माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ॥७-२६-३९॥
Vālmīki 7.26.40
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ।स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।देवलोकस्थितिरियं सुराणां शाश्वती मता ॥७-२६-४०॥
Vālmīki 7.26.41
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥७-२६-४१॥
Vālmīki 7.26.42
स्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले ।कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥७-२६-४२॥
Vālmīki 7.26.43
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ।गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ॥७-२६-४३॥
Vālmīki 7.26.44
लुलिताकुलकेशान्ता करवेपितपल्लवा ।पवनेनावधूतेव लता कुसुमशालिनी ॥७-२६-४४॥
Vālmīki 7.26.45
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ।नलकूबरमासाद्य पादयोर्निपपात ह ॥७-२६-४५॥
Vālmīki 7.26.46
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ।अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ॥७-२६-४६॥
Vālmīki 7.26.47
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः ।तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ॥७-२६-४७॥
Vālmīki 7.26.48
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ।तेन सैन्यसहायेन निशेयं परिणामिता ॥७-२६-४८॥
Vālmīki 7.26.49
आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम ।गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ॥७-२६-४९॥
Vālmīki 7.26.50
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् ।काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥७-२६-५०॥
Vālmīki 7.26.51
याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो ।तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ॥७-२६-५१॥
Vālmīki 7.26.52
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत ।न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ॥७-२६-५२॥
Vālmīki 7.26.53
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः ।धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ॥७-२६-५३॥
Vālmīki 7.26.54
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ।मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ॥७-२६-५४॥
Vālmīki 7.26.55
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि ।उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ॥७-२६-५५॥
Vālmīki 7.26.56
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ।तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥७-२६-५६॥
Vālmīki 7.26.57
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् ।मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥७-२६-५७॥
Vālmīki 7.26.58
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे ।देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ॥७-२६-५८॥
Vālmīki 7.26.59
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ।ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ॥७-२६-५९॥
Vālmīki 7.26.60
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ।नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ॥७-२६-६०॥
Vālmīki 7.26.61
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ।नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥७-२६-६१॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷