🪷 उत्तरकाण्ड · Sarga 25
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 25 · 52 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 7.25local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् ।भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ।। ७.२५.१ ॥
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् ।तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ।। ७.२५.२ ॥
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् ।ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ।। ७.२५.३ ॥
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।ददर्श स्वसुतं तत्र मेघनादं भयावहम् ।। ७.२५.४ ॥
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः ।अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ।। ७.२५.५ ॥
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये ।रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ।। ७.२५.६ ॥
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् ।यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ।। ७.२५.७ ॥
अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः ।राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ।। ७.२५.८ ॥
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ।वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ।। ७.२५.९ ॥
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।मायां च तामसीं नाम यया सम्पद्यते तमः ।। ७.२५.१० ॥
एतया किल सङ्ग्रामे मायया राक्षसेश्वर ।प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ।। ७.२५.११ ॥
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ।। ७.२५.१२ ॥
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन ।अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ।। ७.२५.१३ ॥
ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् ।पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ।। ७.२५.१४ ॥
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः ।आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ।। ७.२५.१५ ॥
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ।। ७.२५.१६ ॥
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् ।तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ।। ७.२५.१७ ॥
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः ।धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। ७.२५.१८ ॥
ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः ।त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ।। ७.२५.१९ ॥
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् ।को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ।। ७.२५.२० ॥
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् ।श्रूयतामस्य पापस्य कर्मणः फलमागतम् ।। ७.२५.२१ ॥
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ।माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। ७.२५.२२ ॥
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् ।तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ।। ७.२५.२३ ॥
मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा ।भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ।। ७.२५.२४ ॥
सा हृता, मधुना राजन्राक्षसेन बलीयसा ।यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ।। ७.२५.२५ ॥
कुम्भकर्णे महाराज निद्रामनुभवत्यथ ।निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ।। ७.२५.२६ ॥
धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव ।श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ।। ७.२५.२७ ॥
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः ।तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।। ७.२५.२८ ॥
अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते ।विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः ।दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ।। ७.२५.२९ ॥
ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः ।कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। ७.२५.३० ॥
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। ७.२५.३१ ॥
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ।सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ।। ७.२५.३२ ॥
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् ।नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ।। ७.२५.३३ ॥
इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च ।जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ।। ७.२५.३४ ॥
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् ।शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ।। ७.२५.३५ ॥
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः ।राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ।। ७.२५.३६ ॥
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ।रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ।। ७.२५.३७ ॥
स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ।। ७.२५.३८ ॥
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।। ७.२५.३९ ॥
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ।तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।। ७.२५.४० ॥
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ।साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ।भर्तारं न ममेहाद्य हन्तुर्महसि मानद ।। ७.२५.४१ ॥
न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते ।भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ।। ७.२५.४२ ॥
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ।त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ।। ७.२५.४३ ॥
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। ७.२५.४४ ॥
सह तेन गमिष्यामि सुरलोकं जयावहे ।तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ।। ७.२५.४५ ॥
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् ।अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ।। ७.२५.४६ ॥
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः ।सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ।। ७.२५.४७ ॥
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ।। ७.२५.४८ ॥
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।। ७.२५.४९ ॥
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ।पूजयमास धर्मेण रावणं राक्षसाधिपम् ।। ७.२५.५० ॥
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् ।तत्र चैकां निशामुष्य गमनायोपचक्रमे ।। ७.२५.५१ ॥
ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ।। ७.२५.५२ ।।
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 24
- Next: Uttara-Kāṇḍa Sarga 26 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷