🪷 उत्तरकाण्ड · Sarga 24
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 24 · 42 ślokas
🪷 Devanāgarī Ślokas
निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् ।जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥७-२४-१॥
दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति ।हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ॥७-२४-२॥
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः ।यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ॥७-२४-३॥
ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् ।तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ॥७-२४-४॥
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः ।आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ॥७-२४-५॥
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः ।दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ॥७-२४-६॥
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः ।पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥७-२४-७॥
रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः ।स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ॥७-२४-८॥
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ।तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ॥७-२४-९॥
अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् ।दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ॥७-२४-१०॥
दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव ।काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ॥७-२४-११॥
काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् ।इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च ।दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥७-२४-१२॥
कथं नु खलु मे पुत्रो भविष्यति मया विना ।कथं माता कथं भ्राता निमग्नाः शोकसागरे ।। ७.२४.१३ ।॥ ॥७-२४-१३॥
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ।मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ॥७-२४-१४॥
किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥७-२४-१५॥
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ।न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ॥७-२४-१६॥
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः ।यद्दुर्बला बलवता भर्तारो रावणेन नः ॥७-२४-१७॥
सूर्येणोदयता काले नक्षत्राणीव नाशिताः ।अहो सुबलवद्रक्षो वधोपायेषु युज्यते ॥७-२४-१८॥
अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते ।सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ॥७-२४-१९॥
इदं त्वसदृशं कर्म परदाराभिमर्शनम् ।यस्मादेष परक्यासु रमते राक्षसाधमः ॥७-२४-२०॥
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ।सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ॥७-२४-२१॥
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ।शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ॥७-२४-२२॥
पतिव्रताभिः साध्वीभिर्बभूव विमना इव ।एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥७-२४-२३॥
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ।सहसा पतिता भूमौ भगिनी रावणस्य सा ॥७-२४-२४॥
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ।अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ॥७-२४-२५॥
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् ।कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ॥७-२४-२६॥
एते राजंस्त्वया वीरा दैत्या विनिहता रणे ।कालकेया इति ख्याताः सहस्राणि चतुर्दश ॥७-२४-२७॥
प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ॥७-२४-२८॥
सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना ।त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ॥७-२४-२९॥
राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ।ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥७-२४-३०॥
एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥७-२४-३१॥
अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ॥७-२४-३२॥
युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् ।नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ॥७-२४-३३॥
जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः ।तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ॥७-२४-३४॥
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ॥७-२४-३५॥
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ॥७-२४-३६॥
तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः ।भविष्यति तवादेशं सदा कुर्वन्निशाचरः ॥७-२४-३७॥
शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् ।दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ॥७-२४-३८॥
तत्र ते वचनं शूरः करिष्यति सदा खरः ।रक्षसां कामरूपाणां प्रभुरेष भविष्यति ॥७-२४-३९॥
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह ।चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ॥७-२४-४०॥
स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः ।आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ॥७-२४-४१॥
स तत्र कारयामास राज्यं निहतकण्टकम् ।सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ॥७-२४-४२॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 23
- Next: Uttara-Kāṇḍa Sarga 25 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷