🪷 उत्तरकाण्ड · Sarga 23

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 23 · 54 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.23.1
ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् ।रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ॥७-२३-१॥
Vālmīki 7.23.2
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् ।रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ॥७-२३-२॥
Vālmīki 7.23.3
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ।पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ॥७-२३-३॥
Vālmīki 7.23.4
ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् ।दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ॥७-२३-४॥
Vālmīki 7.23.5
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् ।कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ॥७-२३-५॥
Vālmīki 7.23.6
निवातकवचास्तत्र दैत्या लब्धवरा वसन् ।राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ॥७-२३-६॥
Vālmīki 7.23.7
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ।नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ॥७-२३-७॥
Vālmīki 7.23.8
शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः ।अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ॥७-२३-८॥
Vālmīki 7.23.9
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ।न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ॥७-२३-९॥
Vālmīki 7.23.10
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः ।आजगाम द्रुतं देवो विमानवरमास्थितः ॥७-२३-१०॥
Vālmīki 7.23.11
निवातकवचानां तु निवार्य रणकर्म तत् ।वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥७-२३-११॥
Vālmīki 7.23.12
नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ।न भवन्तः क्षयं नेतुमपि सामरदानवैः ॥७-२३-१२॥
Vālmīki 7.23.13
राक्षसस्य सखित्वं च भवद्भिः सह रोचते ।अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ॥७-२३-१३॥
Vālmīki 7.23.14
ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः ।निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥७-२३-१४॥
Vālmīki 7.23.15
अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः ।स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ॥७-२३-१५॥
Vālmīki 7.23.16
ततोपधार्य मायानां शतमेकं समाप्तवान् ।सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ॥७-२३-१६॥
Vālmīki 7.23.17
ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् ।गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ॥७-२३-१७॥
Vālmīki 7.23.18
शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा ।श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् ।जिह्वया संलिहन्तं च राक्षसं समरे तथा ॥७-२३-१८॥
Vālmīki 7.23.19
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ॥७-२३-१९॥
Vālmīki 7.23.20
ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् ।वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥७-२३-२०॥
Vālmīki 7.23.21
क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् ।यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ॥७-२३-२१॥
Vālmīki 7.23.22
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् ।यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ॥७-२३-२२॥
Vālmīki 7.23.23
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः ।अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ॥७-२३-२३॥
Vālmīki 7.23.24
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ।प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ॥७-२३-२४॥
Vālmīki 7.23.25
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ।ततो धाराशताकीर्णं शारदाभ्रनिभं तदा ।नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥७-२३-२५॥
Vālmīki 7.23.26
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः ।अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ॥७-२३-२६॥
Vālmīki 7.23.27
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ।वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ॥७-२३-२७॥
Vālmīki 7.23.28
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ।पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ॥७-२३-२८॥
Vālmīki 7.23.29
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ।युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ॥७-२३-२९॥
Vālmīki 7.23.30
ततो युद्धं समभवद्दारुणं रोमहर्षणम् ।सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ॥७-२३-३०॥
Vālmīki 7.23.31
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः ।वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ॥७-२३-३१॥
Vālmīki 7.23.32
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा ।अर्दिताः शरजालेन निवृत्ता रणकर्मणः ॥७-२३-३२॥
Vālmīki 7.23.33
महीतलगतास्ते तु रावणं दृश्य पुष्पके ।आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ॥७-२३-३३॥
Vālmīki 7.23.34
महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् ।आकाशयुद्धं तुमुलं देवदानवयोरिव ॥७-२३-३४॥
Vālmīki 7.23.35
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः ।विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ॥७-२३-३५॥
Vālmīki 7.23.36
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ।त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ॥७-२३-३६॥
Vālmīki 7.23.37
तेन ते दारुणा युद्धे कामगाः पवनोपमाः ।महोदरेण गदया हता वै प्रययुः क्षितिम् ॥७-२३-३७॥
Vālmīki 7.23.38
तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् ।मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ॥७-२३-३८॥
Vālmīki 7.23.39
ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः ।महोदरेण निहताः पतिताः पृथिवीतले ॥७-२३-३९॥
Vālmīki 7.23.40
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः ।आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ॥७-२३-४०॥
Vālmīki 7.23.41
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् ।रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ॥७-२३-४१॥
Vālmīki 7.23.42
सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः ।दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ॥७-२३-४२॥
Vālmīki 7.23.43
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः ।शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ॥७-२३-४३॥
Vālmīki 7.23.44
ततस्तेनैव सहसा सीदन्ति स्म पदातयः ।मुसलानि विचित्राणि ततो भल्लशतानि च ॥७-२३-४४॥
Vālmīki 7.23.45
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ।पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥७-२३-४५॥
Vālmīki 7.23.46
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः ।महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ॥७-२३-४६॥
Vālmīki 7.23.47
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः ।ननाद रावणो हर्षान्महानम्बुधरो यथा ॥७-२३-४७॥
Vālmīki 7.23.48
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् ।नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ॥७-२३-४८॥
Vālmīki 7.23.49
ततस्ते विमुखाः सर्वे पतिता धरणीतले ।रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥७-२३-४९॥
Vālmīki 7.23.50
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ॥७-२३-५०॥
Vālmīki 7.23.51
रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः ।गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ॥७-२३-५१॥
Vālmīki 7.23.52
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि ।तत्किं तव वृथा वीर परिश्रम्य गते नृपे ।ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ॥७-२३-५२॥
Vālmīki 7.23.53
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ।हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ॥७-२३-५३॥
Vālmīki 7.23.54
आगतस्तु पथा येन तेनैव विनिवृत्य सः ।लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ॥७-२३-५४॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷