🪷 उत्तरकाण्ड · Sarga 31

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 31 · 43 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 7.31local sarga route with all Sanskrit ślokasUttara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 7.31.1
ततो रामो महातेजा विस्मयात्पुनरेव हि ।उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ।। ७.३१.१ ॥
Vālmīki 7.31.2
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् ।पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।। ७.३१.२ ॥
Vālmīki 7.31.3
राजा वा राजमात्रो वा किं तदा नात्र कश्चन ।धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ।। ७.३१.३ ॥
Vālmīki 7.31.4
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः ।बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ।। ७.३१.४ ॥
Vālmīki 7.31.5
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ।उवाच रामं प्रहसन्पितामह इवेश्वरम् ।। ७.३१.५ ॥
Vālmīki 7.31.6
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।चचार रावणो राम पृथिवीं पृथिवीपते ।। ७.३१.६ ॥
Vālmīki 7.31.7
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ।। ७.३१.७ ॥
Vālmīki 7.31.8
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः ।अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ।। ७.३१.८ ॥
Vālmīki 7.31.9
तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली ।अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ।। ७.३१.९ ॥
Vālmīki 7.31.10
तमेव दिवसं सो ऽथ रावणस्तत्र आगतः ।रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। ७.३१.१० ॥
Vālmīki 7.31.11
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ ।रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ।ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। ७.३१.११ ॥
Vālmīki 7.31.12
इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः ।अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ।। ७.३१.१२ ॥
Vālmīki 7.31.13
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् ।अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ।। ७.३१.१३ ॥
Vālmīki 7.31.14
स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् ।अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ।। ७.३१.१४ ॥
Vālmīki 7.31.15
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् ।प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। ७.३१.१५ ॥
Vālmīki 7.31.16
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः ।स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ।। ७.३१.१६ ॥
Vālmīki 7.31.17
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् ।फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ।। ७.३१.१७ ॥
Vālmīki 7.31.18
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् ।पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। ७.३१.१८ ॥
Vālmīki 7.31.19
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।। ७.३१.१९ ॥
Vālmīki 7.31.20
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ।। ७.३१.२० ॥
Vālmīki 7.31.21
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः ।सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ।। ७.३१.२१ ॥
Vālmīki 7.31.22
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् ।विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। ७.३१.२२ ॥
Vālmīki 7.31.23
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ।जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ।पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।। ७.३१.२३ ॥
Vālmīki 7.31.24
इष्टामिव वरां नारीमवगाह्य दशाननः ।स तस्याः पुलिने रम्ये नानामुनिनिषेविते ।। ७.३१.२४ ॥
Vālmīki 7.31.25
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः ।प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ।। ७.३१.२५ ॥
Vālmīki 7.31.26
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः ।उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। ७.३१.२६ ॥
Vālmīki 7.31.27
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् ।तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ।। ७.३१.२७ ॥
Vālmīki 7.31.28
मामासीनं विदित्वैव चन्द्रायति दिवाकरः ।। ७.३१.२८ ॥
Vālmīki 7.31.29
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः ।मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ।। ७.३१.२९ ॥
Vālmīki 7.31.30
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी ।नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ।। ७.३१.३० ॥
Vālmīki 7.31.31
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ।। ७.३१.३१ ॥
Vālmīki 7.31.32
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् ।महापद्ममुखा मत्ता गङ्गामिव गहागजाः ।अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ।। ७.३१.३२ ॥
Vālmīki 7.31.33
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे ।पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ।। ७.३१.३३ ॥
Vālmīki 7.31.34
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः ।समहोदरधूम्राक्षा नर्मदां विजगाहिरे ।। ७.३१.३४ ॥
Vālmīki 7.31.35
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी ।वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ।। ७.३१.३५ ॥
Vālmīki 7.31.36
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः ।उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ।। ७.३१.३६ ॥
Vālmīki 7.31.37
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे ।राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ।। ७.३१.३७ ॥
Vālmīki 7.31.38
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ।अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ।। ७.३१.३८ ॥
Vālmīki 7.31.39
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ।नर्मदासलिलात्तस्मादुत्ततार स रावणः ।। ७.३१.३९ ॥
Vālmīki 7.31.40
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् ।रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।। ७.३१.४० ॥
Vālmīki 7.31.41
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ।यत्र यत्र च याति स्म रावणो राक्षसेश्वरः ।जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ।। ७.३१.४१ ॥
Vālmīki 7.31.42
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ।अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ।। ७.३१.४२ ॥
Vālmīki 7.31.43
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् ।समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ।। ७.३१.४३ ।।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷