🪷 उत्तरकाण्ड · Sarga 110

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 110 · 28 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.110.1
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ।सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥७-११०-१॥
Vālmīki 7.110.2
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः ।आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥७-११०-२॥
Vālmīki 7.110.3
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥७-११०-३॥
Vālmīki 7.110.4
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥७-११०-४॥
Vālmīki 7.110.5
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ।स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥७-११०-५॥
Vālmīki 7.110.6
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥७-११०-६॥
Vālmīki 7.110.7
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले ।सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥७-११०-७॥
Vālmīki 7.110.8
ततः पितामहो वाणीमन्तरिक्षादभाषत ।आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव ॥७-११०-८॥
Vālmīki 7.110.9
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् ।यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् ।वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ॥७-११०-९॥
Vālmīki 7.110.10
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ॥७-११०-१०॥
Vālmīki 7.110.11
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥७-११०-११॥
Vālmīki 7.110.12
ां विशालाक्षीं तव पूर्वपरिग्रहाम् ।पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥७-११०-१२॥
Vālmīki 7.110.13
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः ।साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥७-११०-१३॥
Vālmīki 7.110.14
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥७-११०-१४॥
Vālmīki 7.110.15
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् ।साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ॥७-११०-१५॥
Vālmīki 7.110.16
अथ विष्णुर्महातेजाः पितामहमुवाच ह ।एषां लोकं जनौघानां दातुमर्हसि सुव्रत ॥७-११०-१६॥
Vālmīki 7.110.17
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः ।भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ॥७-११०-१७॥
Vālmīki 7.110.18
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥७-११०-१८॥
Vālmīki 7.110.19
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् ।प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ॥७-११०-१९॥
Vālmīki 7.110.20
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥७-११०-२०॥
Vālmīki 7.110.21
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ॥७-११०-२१॥
Vālmīki 7.110.22
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् ।पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे ॥७-११०-२२॥
Vālmīki 7.110.23
तथोक्तवति देवेशे गोप्रतारमुपागताः ।भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ॥७-११०-२३॥
Vālmīki 7.110.24
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् ।मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ॥७-११०-२४॥
Vālmīki 7.110.25
तिर्यग्योनिगतानां च शतानि सरयूजलम् ।सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ।दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ॥७-११०-२५॥
Vālmīki 7.110.26
गत्वा तु सरयूतोयं स्थावराणि चराणि च ।प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥७-११०-२६॥
Vālmīki 7.110.27
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः ।ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ॥७-११०-२७॥
Vālmīki 7.110.28
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ॥७-११०-२८॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷