🪷 उत्तरकाण्ड · Sarga 111

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 111 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.111.1
एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् ।रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ॥७-१११-१॥
Vālmīki 7.111.2
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् ।येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥७-१११-२॥
Vālmīki 7.111.3
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ॥७-१११-३॥
Vālmīki 7.111.4
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ॥७-१११-४॥
Vālmīki 7.111.5
अपुत्रो लभते पुत्रमधनो लभते धनम् ।सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥७-१११-५॥
Vālmīki 7.111.6
पापान्यपि च यः कुर्यादहन्यहनि मानवः ।पठत्येकमपि श्लोकं पापात्स परिमुच्यते ॥७-१११-६॥
Vālmīki 7.111.7
वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् ।वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥७-१११-७॥
Vālmīki 7.111.8
एतदाख्यानमायुष्यं पठन्रामायणं नरः ।सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ॥७-१११-८॥
Vālmīki 7.111.9
अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् ।ऋषभं प्राप्य राजानं निवासमुपयास्यति ॥७-१११-९॥
Vālmīki 7.111.10
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् ।कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ॥७-१११-१०॥
Vālmīki 7.111.11
अश्वमेधसहस्रस्य वाजपेयायुतस्य च ।लभते श्रावणादेव सर्गस्यैकस्य मानवः ॥७-१११-११॥
Vālmīki 7.111.12
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि ।गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ॥७-१११-१२॥
Vālmīki 7.111.13
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति ।यश्च रामायणं लोके शृणोति सदृशावुभौ ॥७-१११-१३॥
Vālmīki 7.111.14
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् ।सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ॥७-१११-१४॥
Vālmīki 7.111.15
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ॥७-१११-१५॥
Vālmīki 7.111.16
पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा ।सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ॥७-१११-१६॥
Vālmīki 7.111.17
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥७-१११-१७॥
Vālmīki 7.111.18
अपुत्रो लभते पुत्रमधनो लभते धनम् ।सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥७-१११-१८॥
Vālmīki 7.111.19
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह ।भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥७-१११-१९॥
Vālmīki 7.111.20
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति ।श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ॥७-१११-२०॥
Vālmīki 7.111.21
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥७-१११-२१॥
Vālmīki 7.111.22
पिता पितामहस्तस्य तथैव प्रपितामहः ।तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ॥७-१११-२२॥
Vālmīki 7.111.23
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु ।तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ॥७-१११-२३॥
Vālmīki 7.111.24
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ।स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥७-१११-२४॥
Vālmīki 7.111.25
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥७-१११-२५॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷