🪷 उत्तरकाण्ड · Sarga 109
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 109 · 22 ślokas
🪷 Devanāgarī Ślokas
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥७-१०९-१॥
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।वाजपेयातपत्रं च शोभमानं महापथे ॥७-१०९-२॥
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ॥७-१०९-३॥
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥७-१०९-४॥
अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि ।निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ॥७-१०९-५॥
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता ।सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ॥७-१०९-६॥
शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।तथा ऽ ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ॥७-१०९-७॥
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः ॥७-१०९-८॥
ऋषयश्च महात्मानः सर्व एव महीसुराः ।अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ॥७-१०९-९॥
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ॥७-१०९-१०॥
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ।रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ॥७-१०९-११॥
ते च सर्वे महात्मानः साग्निहोत्राः समागताः ।सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ॥७-१०९-१२॥
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ॥७-१०९-१३॥
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ॥७-१०९-१४॥
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ॥७-१०९-१५॥
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥७-१०९-१६॥
न तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः ।हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ॥७-१०९-१७॥
द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः ।यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ॥७-१०९-१८॥
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ॥७-१०९-१९॥
यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च ।राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥७-१०९-२०॥
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ॥७-१०९-२१॥
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥७-१०९-२२॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 108
- Next: Uttara-Kāṇḍa Sarga 110 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷