🪷 उत्तरकाण्ड · Sarga 108
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 108 · 38 ślokas
🪷 Devanāgarī Ślokas
ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ॥७-१०८-१॥
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ ।शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ॥७-१०८-२॥
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥७-१०८-३॥
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।कुशावतीति नाम्ना सा कृता रामेण धीमता ।श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ॥७-१०८-४॥
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ।स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ॥७-१०८-५॥
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ॥७-१०८-६॥
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् ।प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ॥७-१०८-७॥
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः ।आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ॥७-१०८-८॥
ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः ।सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥७-१०८-९॥
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ॥७-१०८-१०॥
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् ।ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ॥७-१०८-११॥
स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ॥७-१०८-१२॥
सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ॥७-१०८-१३॥
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन ।तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥७-१०८-१४॥
न चान्यदपि वक्तव्यमतो वीर न शासनम् ।विलोक्यमानमिच्छामि मद्विधेन विशेषतः ॥७-१०८-१५॥
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ॥७-१०८-१६॥
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ॥७-१०८-१७॥
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ।तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ॥७-१०८-१८॥
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।रामक्षयं विदित्वा ते सर्व एव समागताः ॥७-१०८-१९॥
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ॥७-१०८-२०॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम ।यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥७-१०८-२१॥
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ॥७-१०८-२२॥
एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः ।प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ॥७-१०८-२३॥
अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर ।तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥७-१०८-२४॥
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ।वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ॥७-१०८-२५॥
सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः ।गच्छेयं देवलोकं वा परमं वा पदं महत् ॥७-१०८-२६॥
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः ।यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण ।राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ॥७-१०८-२७॥
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ॥७-१०८-२८॥
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् ।प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥७-१०८-२९॥
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ॥७-१०८-३०॥
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् ।आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ॥७-१०८-३१॥
तथेति प्रतिजग्राह रामवाक्यं विभीषणः ।राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ॥७-१०८-३२॥
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ॥७-१०८-३३॥
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ।तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ॥७-१०८-३४॥
एवमुक्तस्तु हनुमान्राघवेण महात्मना ।वाक्यं विज्ञापयामास परं हर्षमवाप्य च ॥७-१०८-३५॥
यावत्तव कथा लोके विचरिष्यति पावनी ।तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ॥७-१०८-३६॥
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा ।मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।यावत्कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ॥७-१०८-३७॥
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ॥७-१०८-३८॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 107
- Next: Uttara-Kāṇḍa Sarga 109 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷