🪷 उत्तरकाण्ड · Sarga 107

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 107 · 21 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.107.1
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः ।पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् ॥७-१०७-१॥
Vālmīki 7.107.2
अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् ।अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ॥७-१०७-२॥
Vālmīki 7.107.3
प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः ।अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ॥७-१०७-३॥
Vālmīki 7.107.4
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् ।मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् ॥७-१०७-४॥
Vālmīki 7.107.5
भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् ।राज्यं विगर्हयामास राघवं चेदमब्रवीत् ॥७-१०७-५॥
Vālmīki 7.107.6
सत्येनाहं शपे राजन्स्वर्गलोके न चैव हि ।न कामये यथा राज्यं त्वां विना रघुनन्दन ॥७-१०७-६॥
Vālmīki 7.107.7
इमौ कुशलवौ राजन्नभिषिञ्च नराधिप ।कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ॥७-१०७-७॥
Vālmīki 7.107.8
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः ।इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् ॥७-१०७-८॥
Vālmīki 7.107.9
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् ।पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् ॥७-१०७-९॥
Vālmīki 7.107.10
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः ।ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः ॥७-१०७-१०॥
Vālmīki 7.107.11
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् ।किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ॥७-१०७-११॥
Vālmīki 7.107.12
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् ।गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥७-१०७-१२॥
Vālmīki 7.107.13
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः ।सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् ॥७-१०७-१३॥
Vālmīki 7.107.14
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा ।वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर ॥७-१०७-१४॥
Vālmīki 7.107.15
एषा नः परमा प्रीतिरेष नः परमो वरः ।हृद्गता नः सदा प्रीतिस्तवानुगमने नृप ॥७-१०७-१५॥
Vālmīki 7.107.16
पौराणां दृढभक्तिं च बाढमित्येव सो ऽब्रवीत् ।स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः ॥७-१०७-१६॥
Vālmīki 7.107.17
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् ।अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ॥७-१०७-१७॥
Vālmīki 7.107.18
अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः ।परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् ॥७-१०७-१८॥
Vālmīki 7.107.19
रथानां तु सहस्राणि नागानामयुतानि च ।दशायुतानि चाश्वानामेकैकस्य धनं ददौ ॥७-१०७-१९॥
Vālmīki 7.107.20
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ ।स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ॥७-१०७-२०॥
Vālmīki 7.107.21
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा ।दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने ॥७-१०७-२१॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷