🪷 उत्तरकाण्ड · Sarga 104

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 104 · 19 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.104.1
शृणु राजन्महासत्व यदर्थमहमागतः ।पितामहेन देवेन प्रेषितो ऽस्मि महाबल ॥७-१०४-१॥
Vālmīki 7.104.2
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय ।मायासम्भावितो वीर कालः सर्वसमाहरः ॥७-१०४-२॥
Vālmīki 7.104.3
पितामहश्च भगवानाह लोकपतिः प्रभुः ।समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ॥७-१०४-३॥
Vālmīki 7.104.4
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ॥७-१०४-४॥
Vālmīki 7.104.5
भोगवन्तं ततो नागमनन्तमुदकेशयम् ।मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ॥७-१०४-५॥
Vālmīki 7.104.6
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता ।इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ॥७-१०४-६॥
Vālmīki 7.104.7
पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि ।प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ॥७-१०४-७॥
Vālmīki 7.104.8
सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् ।रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ॥७-१०४-८॥
Vālmīki 7.104.9
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥७-१०४-९॥
Vālmīki 7.104.10
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः ।समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ॥७-१०४-१०॥
Vālmīki 7.104.11
स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ॥७-१०४-११॥
Vālmīki 7.104.12
दश वर्षसहस्राणि दश वर्षशतानि च ।कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ॥७-१०४-१२॥
Vālmīki 7.104.13
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ॥७-१०४-१३॥
Vālmīki 7.104.14
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।वस वा वीर भद्रं त एवमाह पितामहः ॥७-१०४-१४॥
Vālmīki 7.104.15
अथ वा विजिगीषा ते सुरलोकाय राघव ।सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥७-१०४-१५॥
Vālmīki 7.104.16
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ॥७-१०४-१६॥
Vālmīki 7.104.17
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।प्रीतिर्हि महती जाता तवागमनसम्भवा ॥७-१०४-१७॥
Vālmīki 7.104.18
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ।भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ॥७-१०४-१८॥
Vālmīki 7.104.19
हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा ।मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् ।स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ॥७-१०४-१९॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷