🪷 उत्तरकाण्ड · Sarga 103
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 103 · 17 ślokas
🪷 Devanāgarī Ślokas
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते ।कालस्तापसरूपेण राजद्वारमुपागमत् ॥७-१०३-१॥
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् ।मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् ॥७-१०३-२॥
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः ।रामं दिदृक्षुरायातः कार्येण हि महाबल ॥७-१०३-३॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः ।न्यवेदयत रामाय तापसं तं समागतम् ॥७-१०३-४॥
जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ॥७-१०३-५॥
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ॥७-१०३-६॥
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः ॥७-१०३-७॥
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा ।ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥७-१०३-८॥
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ॥७-१०३-९॥
पृष्टश्च कुशलं तेन रामेण वदतां वरः ।आसने काञ्चने दिव्ये निषसाद महायशाः ॥७-१०३-१०॥
तमुवाच ततो रामः स्वागतं ते महामुने ।प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः ॥७-१०३-११॥
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ॥७-१०३-१२॥
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥७-१०३-१३॥
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥७-१०३-१४॥
स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् ।ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥७-१०३-१५॥
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् ।तमुवाच मुने वाक्यं कथयस्वेति राघवः ॥७-१०३-१६॥
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः ।कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥७-१०३-१७॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 102
- Next: Uttara-Kāṇḍa Sarga 104 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷