🪷 उत्तरकाण्ड · Sarga 102
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 102 · 17 ślokas
🪷 Devanāgarī Ślokas
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ॥७-१०२-१॥
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥७-१०२-२॥
इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् ।रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ॥७-१०२-३॥
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥७-१०२-४॥
तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।अयं कारुपथो देशो रमणीयो निरामयः ॥७-१०२-५॥
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥७-१०२-६॥
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥७-१०२-७॥
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता ।रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥७-१०२-८॥
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता ।चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥७-१०२-९॥
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥७-१०२-१०॥
अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥७-१०२-११॥
अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह ।चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥७-१०२-१२॥
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ॥७-१०२-१३॥
भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् ।अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥७-१०२-१४॥
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ॥७-१०२-१५॥
एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥७-१०२-१६॥
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ॥७-१०२-१७॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 101
- Next: Uttara-Kāṇḍa Sarga 103 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷