🪷 उत्तरकाण्ड · Sarga 101
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 101 · 18 ślokas
🪷 Devanāgarī Ślokas
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ।युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥७-१०१-१॥
स निर्ययौ जनौघेन महता केकयाधिपः ।त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ॥७-१०१-२॥
भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ।गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥७-१०१-३॥
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ।योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ॥७-१०१-४॥
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥७-१०१-५॥
खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ।नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ॥७-१०१-६॥
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ।संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥७-१०१-७॥
ते बद्धाः कालपाशेन संवर्तेन विदारिताः ।क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥७-१०१-८॥
तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः ।निमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥७-१०१-९॥
हतेषु तेषु सर्वेषु भरतः केकयीसुतः ।निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥७-१०१-१०॥
तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते ।गन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥७-१०१-११॥
धनरत्नौघसङ्कीर्णे काननैरुपशोभिते ।अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ॥७-१०१-१२॥
उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः ।उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ॥७-१०१-१३॥
उभे पुरवरे रम्ये विस्तरैरुपशोभिते ।गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥७-१०१-१४॥
शोभिते शोभनीयैश्च देवायतनविस्तरैः ।तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ॥७-१०१-१५॥
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः ।पुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥७-१०१-१६॥
सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ।राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥७-१०१-१७॥
शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ।निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ॥७-१०१-१८॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 100
- Next: Uttara-Kāṇḍa Sarga 102 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷