🪷 उत्तरकाण्ड · Sarga 100

Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 100 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 7.100.1
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।स्वगुरुं प्रेषयामास राघवाय महात्मने ।गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥७-१००-१॥
Vālmīki 7.100.2
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥७-१००-२॥
Vālmīki 7.100.3
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।रामाय प्रददौ राजा शुभान्याभरणानि च ॥७-१००-३॥
Vālmīki 7.100.4
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् ।मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ॥७-१००-४॥
Vālmīki 7.100.5
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः ।गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ॥७-१००-५॥
Vālmīki 7.100.6
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च ।पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च ।उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥७-१००-६॥
Vālmīki 7.100.7
किमाह मातुलो वाक्यं यदर्थं भगवानिह ।प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥७-१००-७॥
Vālmīki 7.100.8
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ।वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥७-१००-८॥
Vālmīki 7.100.9
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः ।युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥७-१००-९॥
Vālmīki 7.100.10
अयं गन्धर्वविषयः फलमूलोपशोभितः ।सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥७-१००-१०॥
Vālmīki 7.100.11
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥७-१००-११॥
Vālmīki 7.100.12
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।निवेशय महाबोहो स्वे पुरे सुसमाहिते ॥७-१००-१२॥
Vālmīki 7.100.13
अन्यस्य न गतिस्तत्र देशः परमशोभनः ।रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥७-१००-१३॥
Vālmīki 7.100.14
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।उवाच बाढमित्येव भरतं चान्ववैक्षत ॥७-१००-१४॥
Vālmīki 7.100.15
सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥७-१००-१५॥
Vālmīki 7.100.16
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥७-१००-१६॥
Vālmīki 7.100.17
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥७-१००-१७॥
Vālmīki 7.100.18
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च ।आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥७-१००-१८॥
Vālmīki 7.100.19
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥७-१००-१९॥
Vālmīki 7.100.20
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् ।भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥७-१००-२०॥
Vālmīki 7.100.21
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ ।राघवानुगता दूरं दुराधर्षा सुरैरपि ॥७-१००-२१॥
Vālmīki 7.100.22
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ।अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥७-१००-२२॥
Vālmīki 7.100.23
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ॥७-१००-२३॥
Vālmīki 7.100.24
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ।बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥७-१००-२४॥
Vālmīki 7.100.25
अध्यर्धमासमुषिता पथि सेना निरामया ।हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥७-१००-२५॥

Navigation

Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷