🪷 उत्तरकाण्ड · Sarga 105
Uttara-Kāṇḍa · The Book of the Aftermath · Sarga 105 · 18 ślokas
🪷 Devanāgarī Ślokas
तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ।रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥७-१०५-१॥
सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ।रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते ॥७-१०५-२॥
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥७-१०५-३॥
किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् ।व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ॥७-१०५-४॥
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥७-१०५-५॥
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ॥७-१०५-६॥
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ।भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ॥७-१०५-७॥
न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ।तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥७-१०५-८॥
एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् ।इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥७-१०५-९॥
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥७-१०५-१०॥
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥७-१०५-११॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ।प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ॥७-१०५-१२॥
अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ ॥७-१०५-१३॥
तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥७-१०५-१४॥
स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् ॥७-१०५-१५॥
तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ।संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ॥७-१०५-१६॥
दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् ।अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ॥७-१०५-१७॥
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ॥७-१०५-१८॥
Navigation
- ← Previous: Uttara-Kāṇḍa Sarga 104
- Next: Uttara-Kāṇḍa Sarga 106 →
- Uttara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Uttara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷