🪷 सुन्दरकाण्ड · Sarga 9
Sundara-Kāṇḍa · The Book of Beauty · Sarga 9 · 73 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.9local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तस्य आलय वरिष्ठस्य मध्ये विपुलम् आयतम् ।ददर्श भवन श्रेष्ठम् हनूमान् मारुत आत्मजः ॥५-९-१॥
अर्ध योजन विस्तीर्णम् आयतम् योजनम् हि तत् ।भवनम् राक्षस इन्द्रस्य बहु प्रासाद सम्कुलम् ॥५-९-२॥
मार्गमाणः तु वैदेहीम् सीताम् आयत लोचनाम् ।सर्वतः परिचक्राम हनूमान् अरि सूदनः ॥५-९-३॥
उत्तमम् राक्षसावासम् हनुमानवलोकयन् ।आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥५-९-४॥
चतुर् विषाणैर् द्विरदैः त्रिविषाणैः तथैव च ।परिक्षिप्तम् असम्बाधम् रक्ष्यमाणम् उदायुधैः ॥५-९-५॥
राक्षसीभिः च पत्नीभी रावणस्य निवेशनम् ।आह्Rताभिः च विक्रम्य राज कन्याभिर् आव्Rतम् ॥५-९-६॥
तन् नक्र मकर आकीर्णम् तिमिम्गिल झष आकुलम् ।वायु वेग समाधूतम् पन्नगैर् इव सागरम् ॥५-९-७॥
या हि वैश्वरणे लक्ष्मीर् या च इन्द्रे हरि वाहने ।सा रावण ग्Rहे सर्वा नित्यम् एव अनपायिनी ॥५-९-८॥
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।ताद्Rशी तद् विशिष्टा वा Rद्धी रक्षो ग्Rहेष्व् इह ॥५-९-९॥
तस्य हर्म्यस्य मध्यस्थम् वेश्म च अन्यत् सुनिर्मितम् ।बहुनिर्यूह सम्कीर्णम् ददर्श पवन आत्मजः ॥५-९-१०॥
ब्रह्मणो अर्थे क्Rतम् दिव्यम् दिवि यद् विश्व कर्मणा ।विमानम् पुष्पकम् नाम सर्व रत्न विभूषितम् ॥५-९-११॥
परेण तपसा लेभे यत् कुबेरः पितामहात् ।कुबेरम् ओजसा जित्वा लेभे तद् राक्षस ईश्वरः ॥५-९-१२॥
ईहा म्Rग समायुक्तैः कार्य स्वर हिरण्मयैः ।सुक्Rतैर् आचितम् स्तम्भैः प्रदीप्तम् इव च श्रिया ॥५-९-१३॥
मेरु मन्दर सम्काशैर् उल्लिखद्भिर् इव अम्बरम् ।कूट अगारैः शुभ आकारैः सर्वतः समलम्क्Rतम् ॥५-९-१४॥
ज्वलन अर्क प्रतीकाशम् सुक्Rतम् विश्व कर्मणा ।हेम सोपान सम्युक्तम् चारु प्रवर वेदिकम् ॥५-९-१५॥
जाल वात अयनैर् युक्तम् कान्चनैः स्थाटिकैर् अपि ।इन्द्र नील महा नील मणि प्रवरवेदिकम् ॥५-९-१६॥
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः ।विस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥५-९-१७॥
चन्दनेन च रक्तेन तपनीयनिभेन च ।सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम् ॥५-९-१८॥
कूटागारैर्वराकारैर्विविधैः समलम्कृतम् ।विमानम् पुष्पकम् दिव्यम् आरुरोह महा कपिः ॥५-९-१९॥
तत्रस्थः स तदा गन्धम् पान भक्ष्य अन्न सम्भवम् ।दिव्यम् सम्मूर्चितम् जिघ्रन् रूपवन्तम् इव अनिलम् ॥५-९-२०॥
स गन्धः तम् महा सत्त्वम् बन्धुर् बन्धुम् इव उत्तमम् ।इत एहि इति उवाच इव तत्र यत्र स रावणः ॥५-९-२१॥
ततः ताम् प्रस्थितः शालाम् ददर्श महतीम् शुभाम् ।रावणस्य मनः कान्ताम् कान्ताम् इव वर स्त्रियम् ॥५-९-२२॥
मणि सोपान विक्Rताम् हेम जाल विराजिताम् ।स्फाटिकैर् आव्Rत तलाम् दन्त अन्तरित रूपिकाम् ॥५-९-२३॥
मुक्ताभिः च प्रवालैः च रूप्य चामी करैर् अपि ।विभूषिताम् मणि स्तम्भैः सुबहु स्तम्भ भूषिताम् ॥५-९-२४॥
नम्रैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः ।स्तम्भैः पक्षैर् इव अत्युच्चैर् दिवम् सम्प्रस्थिताम् इव ॥५-९-२५॥
महत्या कुथय आस्त्रीणम् प्Rथिवी लक्षण अन्कया ।पृथिवीम् इव विस्तीर्णाम् सराष्ट्र ग्Rह मालिनीम् ॥५-९-२६॥
नादिताम् मत्त विहगैर् दिव्य गन्ध अधिवासिताम् ।पर अर्ध्य आस्तरण उपेताम् रक्षो अधिप निषेविताम् ॥५-९-२७॥
धूम्राम् अगरु धूपेन विमलाम् हम्स पाण्डुराम् ।चित्राम् पुष्प उपहारेण कल्माषीम् इव सुप्रभाम् ॥५-९-२८॥
मनः सम्ह्लाद जननीम् वर्णस्य अपि प्रसादिनीम् ।ताम् शोक नाशिनीम् दिव्याम् श्रियः सम्जननीम् इव ॥५-९-२९॥
इन्द्रियाणि इन्द्रिय अर्थैः तु पन्च पन्चभिर् उत्तमैः ।तर्पयाम् आस माता इव तदा रावण पालिता ॥५-९-३०॥
स्वर्गो अयम् देव लोको अयम् इन्द्रस्य इयम् पुरी भवेत् ।सिद्धिर् वा इयम् परा हि स्याद् इति अमन्यत मारुतिः ॥५-९-३१॥
प्रध्यायत इव अपश्यत् प्रदीपामः तत्र कान्चनान् (ःइअतुस्!)।धूर्तान् इव महा धूर्तैर् देवनेन पराजितान् ॥५-९-३२॥
दीपानाम् च प्रकाशेन तेजसा रावणस्य च ।अर्चिर्भिर् भूषणानाम् च प्रदीप्ता इति अभ्यमन्यत ॥५-९-३३॥
ततो अपश्यत् कुथा आसीनम् नाना वर्ण अम्बर स्रजम् ।सहस्रम् वर नारीणाम् नाना वेष विभूषितम् ॥५-९-३४॥
परिव्Rत्ते अर्ध रात्रे तु पान निद्रा वशम् गतम् ।क्रीडित्वा उपरतम् रात्रौ सुष्वाप बलवत् तदा ॥५-९-३५॥
तत् प्रसुप्तम् विरुरुचे निह्शब्द अन्तर भूषणम् ।निह्शब्द हम्स भ्रमरम् यथा पद्म वनम् महत् ॥५-९-३६॥
तासाम् सम्व्Rत दन्तानि मीलित अक्षाणि मारुतिः ।अपश्यत् पद्म गन्धीनि वदनानि सुयोषिताम् ॥५-९-३७॥
प्रबुद्धानि इव पद्मानि तासाम् भूत्वा क्षपा क्षये ।पुनः सम्व्Rत पत्राणि रात्राव् इव बभुः तदा ॥५-९-३८॥
इमानि मुख पद्मानि नियतम् मत्त षट्पदाः ।अम्बुजानि इव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥५-९-३९॥
इति वा अमन्यत श्रीमान् उपपत्त्या महा कपिः ।मेने हि गुणतः तानि समानि सलिल उद्भवैः ॥५-९-४०॥
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर् विराजिता ।शारदी इव प्रसन्ना द्यौः ताराभिर् अभिशोभिता ॥५-९-४१॥
स च ताभिः परिव्Rतः शुशुभे राक्षस अधिपः ।यथा हि उडु पतिः श्रीमामः ताराभिर् अभिसम्व्Rतः ॥५-९-४२॥
याः च्यवन्ते अम्बरात् ताराः पुण्य शेष समाव्Rताः ।इमाः ताः सम्गताः क्Rत्स्ना इति मेने हरिः तदा ॥५-९-४३॥
ताराणाम् इव सुव्यक्तम् महतीनाम् शुभ अर्चिषाम् ।प्रभा वर्ण प्रसादाः च विरेजुः तत्र योषिताम् ॥५-९-४४॥
व्याव्Rत्त गुरु पीन स्रक् प्रकीर्ण वर भूषणाः ।पान व्यायाम कालेषु निद्रा अपह्Rत चेतसः ॥५-९-४५॥
व्याव्Rत्त तिलकाः काश्चित् काश्चिद् उद्भ्रान्त नूपुराः ।पार्श्वे गलित हाराः च काश्चित् परम योषितः ॥५-९-४६॥
मुखा हार व्Rताः च अन्याः काश्चित् प्रस्रस्त वाससः ।व्याविद्ध रशना दामाः किशोर्य इव वाहिताः ॥५-९-४७॥
सुकुण्डल धराः च अन्या विच्चिन्न म्Rदित स्रजः ।गज इन्द्र म्Rदिताः फुल्ला लता इव महा वने ॥५-९-४८॥
चन्द्र अम्शु किरण आभाः च हाराः कासाम्चिद् उत्कटाः ।हम्सा इव बभुः सुप्ताः स्तन मध्येषु योषिताम् ॥५-९-४९॥
अपरासाम् च वैदूर्याः कादम्बा इव पक्षिणः ।हेम सूत्राणि च अन्यासाम् चक्र वाका इव अभवन् ॥५-९-५०॥
हम्स कारण्डव आकीर्णाः चक्र वाक उपशोभिताः ।आपगा इव ता रेजुर् जघनैः पुलिनैर् इव ॥५-९-५१॥
किन्किणी जाल सम्काशाः ता हेम विपुल अम्बुजाः ।भाव ग्राहा यशः तीराः सुप्ता नद्य इव आबभुः ॥५-९-५२॥
मृदुष्व् अन्गेषु कासाम्चित् कुच अग्रेषु च सम्स्थिताः ।बभूवुर् भूषणानि इव शुभा भूषण राजयः ॥५-९-५३॥
अम्शु कान्ताः च कासाम्चिन् मुख मारुत कम्पिताः ।उपरि उपरि वक्त्राणाम् व्याधूयन्ते पुनः पुनः ॥५-९-५४॥
ताः पाताका इव उद्धूताः पत्नीनाम् रुचिर प्रभाः ।नाना वर्ण सुवर्णानाम् वक्त्र मूलेषु रेजिरे ॥५-९-५५॥
ववल्गुः च अत्र कासाम्चित् कुण्डलानि शुभ अर्चिषाम् ।मुख मारुत सम्सर्गान् मन्दम् मन्दम् सुयोषिताम् ॥५-९-५६॥
शर्कर आसव गन्धः स प्रक्Rत्या सुरभिः सुखः ।तासाम् वदन निह्श्वासः सिषेवे रावणम् तदा ॥५-९-५७॥
रावण आनन शन्काः च काश्चिद् रावण योषितः ।मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनः पुनः ॥५-९-५८॥
अत्यर्थम् सक्त मनसो रावणे ता वर स्त्रियः ।अस्वतन्त्राः सपत्नीनाम् प्रियम् एव आचरमः तदा ॥५-९-५९॥
बाहून् उपनिधाय अन्याः पारिहार्य विभूषिताः ।अम्शुकानि च रम्याणि प्रमदाः तत्र शिश्यिरे ॥५-९-६०॥
अन्या वक्षसि च अन्यस्याः तस्याः काचित् पुनर् भुजम् ।अपरा त्व् अन्कम् अन्यस्याः तस्याः च अपि अपरा भुजौ ॥५-९-६१॥
ऊरु पार्श्व कटी प्Rष्ठम् अन्योन्यस्य समाश्रिताः ।परस्पर निविष्ट अन्ग्यो मद स्नेह वश अनुगाः ॥५-९-६२॥
अन्योन्यस्य अन्ग सम्स्पर्शात् प्रीयमाणाः सुमध्यमाः ।एकी क्Rत भुजाः सर्वाः सुषुपुः तत्र योषितःअन्योन्य भुज सूत्रेण स्त्री माला ग्रथिता हि सा ।माला इव ग्रथिता सूत्रे शुशुभे मत्त षट्पदा ॥५-९-६३॥
लतानाम् माधवे मासि फुल्लानाम् वायु सेवनात् ।अन्योन्य माला ग्रथितम् सम्सक्त कुसुम उच्चयम् ॥५-९-६४॥
व्यतिवेष्टित सुस्कन्थम् अन्योन्य भ्रमर आकुलम् ।आसीद् वनम् इव उद्धूतम् स्त्री वनम् रावणस्य तत् ॥५-९-६५॥
उचितेष्व् अपि सुव्यक्तम् न तासाम् योषिताम् तदा ।विवेकः शक्य आधातुम् भूषण अन्ग अम्बर स्रजाम् ॥५-९-६६॥
रावणे सुख सम्विष्टे ताः स्त्रियो विविध प्रभाः ।ज्वलन्तः कान्चना दीपाः प्रेक्षन्त अनिमिषा इव ॥५-९-६७॥
राज Rषि पित्R दैत्यानाम् गन्धर्वाणाम् च योषितः ।रक्षसाम् च अभवन् कन्याः तस्य काम वशम् गताः ॥५-९-६८॥
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः ।समदा मदनेनैव मोहिताः काश्चिदागताः ॥५-९-६९॥
न तत्र काचित् प्रमदा प्रसह्य ।वीर्य उपपन्नेन गुणेन लब्धा ।न च अन्य कामा अपि न च अन्य पूर्वा ।विना वर अर्हाम् जनक आत्मजाम् तु ॥५-९-७०॥
न च अकुलीना न च हीन रूपा ।न अदक्षिणा न अनुपचार युक्ता ।भार्या अभवत् तस्य न हीन सत्त्वा ।न च अपि कान्तस्य न कामनीया ॥५-९-७१॥
बभूव बुद्धिः तु हरि ईश्वरस्य ।यदि ईद्Rशी राघव धर्म पत्नी ।इमा यथा राक्षस राज भार्याः ।सुजातम् अस्य इति हि साधु बुद्धेः ॥५-९-७२॥
पुनः च सो अचिन्तयद् आर्त रूपो ।ध्रुवम् विशिष्टा गुणतो हि सीता ।अथ अयम् अस्याम् क्Rतवान् महात्मा ।लन्का ईश्वरः कष्टम् अनार्य कर्म ॥५-९-७३॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 8
- Next: Sundara-Kāṇḍa Sarga 10 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷