🪷 सुन्दरकाण्ड · Sarga 10
Sundara-Kāṇḍa · The Book of Beauty · Sarga 10 · 54 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.10local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तत्र दिव्य उपमम् मुख्यम् स्फाटिकम् रत्न भूषितम् ।अवेक्षमाणो हनुमान् ददर्श शयन आसनम् ॥५-१०-१॥
दान्तकाञ्चनिचित्राङ्गेर्वैश्च वरासनैः ।महार्हस्तरणोपेतैरुपपन्नम् महाधनैः ॥५-१०-२॥
तस्य च एकतमे देशे सो अग्र्य माल्य विभूषितम् ।ददर्श पाण्डुरम् चत्रम् तारा अधिपति सम्निभम् ॥५-१०-३॥
जातरूपपरिक्षिप्तम् चित्रभानुसमप्रभम् ।अशोकमालाविततम् ददर्श परमासनम् ॥५-१०-४॥
वाल व्यजन हस्ताभिर् वीज्यमानम् समन्ततः ।गन्धैः च विविधैर् जुष्टम् वर धूपेन धूपितम् ॥५-१०-५॥
परम आस्तरण आस्तीर्णम् आविक अजिन सम्व्र्तम् ।दामभिर् वर माल्यानाम् समन्ताद् उपशोभितम् ॥५-१०-६॥
तस्मिन् जीमूत सम्काशम् प्रदीप्त उत्तम कुण्डलम् ।लोहित अक्षम् महा बाहुम् महा रजत वाससम् ॥५-१०-७॥
लोहितेन अनुलिप्त अन्गम् चन्दनेन सुगन्धिना ।सम्ध्या रक्तम् इव आकाशे तोयदम् सतडिद् गुणम् ॥५-१०-८॥
वृतम् आभरणैर् दिव्यैः सुरूपम् काम रूपिणम् ।सव्र्क्ष वन गुल्म आढ्यम् प्रसुप्तम् इव मन्दरम् ॥५-१०-९॥
क्रीडित्वा उपरतम् रात्रौ वर आभरण भूषितम् ।प्रियम् राक्षस कन्यानाम् राक्षसानाम् सुख आवहम् ॥५-१०-१०॥
पीत्वा अपि उपरतम् च अपि ददर्श स महा कपिः ।भास्करे शयने वीरम् प्रसुप्तम् राक्षस अधिपम् ॥५-१०-११॥
निह्श्वसन्तम् यथा नागम् रावणम् वानर उत्तमः ।आसाद्य परम उद्विग्नः सो अपासर्पत् सुभीतवत् ॥५-१०-१२॥
अथ आरोहणम् आसाद्य वेदिका अन्तरम् आश्रितः ।सुप्तम् राक्षस शार्दूलम् प्रेक्षते स्म महा कपिः ॥५-१०-१३॥
शुशुभे राक्षस इन्द्रस्य स्वपतः शयन उत्तमम् ।गन्ध हस्तिनि सम्विष्टे यथा प्रस्रवणम् महत् ॥५-१०-१४॥
कान्चन अन्गद नद्धौ च ददर्श स महात्मनः ।विक्षिप्तौ राक्षस इन्द्रस्य भुजाव् इन्द्र ध्वज उपमौ ॥५-१०-१५॥
ऐरावत विषाण अग्रैर् आपीडित क्र्त व्रणौ ।वज्र उल्लिखित पीन अम्सौ विष्णु चक्र परिक्षितौ ॥५-१०-१६॥
पीनौ समसुजात अम्सौ सम्गतौ बल सम्युतौ ।सुलक्षण नख अन्गुष्ठौ स्वन्गुली तल लक्षितौ ॥५-१०-१७॥
सम्हतौ परिघ आकारौ व्र्त्तौ करि कर उपमौ ।विक्षिप्तौ शयने शुभ्रे पन्च शीर्षाव् इव उरगौ ॥५-१०-१८॥
शश क्षतज कल्पेन सुशीतेन सुगन्धिना ।चन्दनेन पर अर्ध्येन स्वनुलिप्तौ स्वलम्क्र्तौ ॥५-१०-१९॥
उत्तम स्त्री विम्र्दितौ गन्ध उत्तम निषेवितौ ।यक्ष पन्नग गन्धर्व देव दानव राविणौ ॥५-१०-२०॥
ददर्श स कपिः तस्य बाहू शयन सम्स्थितौ ।मन्दरस्य अन्तरे सुप्तौ महा अर्ही रुषिताव् इव ॥५-१०-२१॥
ताभ्याम् स परिपूर्णाभ्याम् भुजाभ्याम् राक्षस अधिपः ।शुशुभे अचल सम्काशः श्र्न्गाभ्याम् इव मन्दरः ॥५-१०-२२॥
चूत पुम्नाग सुरभिर् बकुल उत्तम सम्युतः ।मृष्ट अन्न रस सम्युक्तः पान गन्ध पुरः सरः ॥५-१०-२३॥
तस्य राक्षस सिम्हस्य निश्चक्राम मुखान् महान् ।शयानस्य विनिह्श्वासः पूरयन्न् इव तद् ग्र्हम् ॥५-१०-२४॥
मुक्ता मणि विचित्रेण कान्चनेन विराजता ।मुकुटेन अपव्र्त्तेन कुण्डल उज्ज्वलित आननम् ॥५-१०-२५॥
रक्त चन्दन दिग्धेन तथा हारेण शोभिता ।पीन आयत विशालेन वक्षसा अभिविराजितम् ॥५-१०-२६॥
पाण्डुरेण अपविद्धेन क्षौमेण क्षतज ईक्षणम् ।महा अर्हेण सुसम्वीतम् पीतेन उत्तम वाससा ॥५-१०-२७॥
माष राशि प्रतीकाशम् निह्श्वसन्तम् भुजन्गवत् ।गान्गे महति तोय अन्ते प्रसुतमिव कुन्जरम् ॥५-१०-२८॥
चतुर्भिः कान्चनैर् दीपैर् दीप्यमानैः चतुर् दिशम् ।प्रकाशी क्र्त सर्व अन्गम् मेघम् विद्युद् गणैर् इव ॥५-१०-२९॥
पाद मूल गताः च अपि ददर्श सुमहात्मनः ।पत्नीः स प्रिय भार्यस्य तस्य रक्षः पतेर् ग्र्हे ॥५-१०-३०॥
शशि प्रकाश वदना वर कुण्डल भूषिताः ।अम्बाल माल्य आभरणा ददर्श हरि यूथपः ॥५-१०-३१॥
नृत्त वादित्र कुशला राक्षस इन्द्र भुज अन्कगाः ।वर आभरण धारिण्यो निषन्ना दद्र्शे कपिः ॥५-१०-३२॥
वज्र वैदूर्य गर्भाणि श्रवण अन्तेषु योषिताम् ।ददर्श तापनीयानि कुण्डलानि अन्गदानि च ॥५-१०-३३॥
तासाम् चन्द्र उपमैर् वक्त्रैः शुभैर् ललित कुण्डलैः ।विरराज विमानम् तन् नभः तारा गणैर् इव ॥५-१०-३४॥
मद व्यायाम खिन्नाः ताः राक्षस इन्द्रस्य योषितः ।तेषु तेष्व् अवकाशेषु प्रसुप्ताः तनु मध्यमाः ॥५-१०-३५॥
अङ्गहारैस्तथैवान्या कोवलैर्नृत्तशालिनी ।विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥५-१०-३६॥
काचिद् वीणाम् परिष्वज्य प्रसुप्ता सम्प्रकाशते ।महा नदी प्रकीर्णा इव नलिनी पोतम् आश्रिता ॥५-१०-३७॥
अन्या कक्ष गतेन एव मड्डुकेन असित ईक्षणा ।प्रसुप्ता भामिनी भाति बाल पुत्रा इव वत्सला ॥५-१०-३८॥
पटहम् चारु सर्व अन्गी पीड्य शेते शुभ स्तनी ।चिरस्य रमणम् लब्ध्वा परिष्वज्य इव कामिनी ॥५-१०-३९॥
काचिद् अम्शम् परिष्वज्य सुप्ता कमल लोचना ।रहः प्रियतमम् गृह्य सकामेव च कामिनी ॥५-१०-४०॥
विपञ्चैइम् परिगृह्यान्या नियता नृत्तशालिनी ।निद्रा वशम् अनुप्राप्ता सह कान्ता इव भामिनी ॥५-१०-४१॥
अन्या कनक सम्काशैर् म्र्दु पीनैर् मनो रमैः ।मृदन्गम् परिपीड्य अन्गैः प्रसुप्ता मत्त लोचना ॥५-१०-४२॥
भुज पार्श्व अन्तरस्थेन कक्षगेन क्र्श उदरी ।पणवेन सह अनिन्द्या सुप्ता मद क्र्त श्रमा ॥५-१०-४३॥
डिण्डिमम् परिग्र्ह्य अन्या तथैव आसक्त डिण्डिमा ।प्रसुप्ता तरुणम् वत्सम् उपगूह्य इव भामिनी ॥५-१०-४४॥
काचिद् आडम्बरम् नारी भुज सम्भोग पीडितम् ।कृत्वा कमल पत्र अक्षी प्रसुप्ता मद मोहिता ॥५-१०-४५॥
कलशीम् अपविद्ध्य अन्या प्रसुप्ता भाति भामिनी ।वसन्ते पुष्प शबला माला इव परिमार्जिता ॥५-१०-४६॥
पाणिभ्याम् च कुचौ काचित् सुवर्ण कलश उपमौ ।उपगूह्य अबला सुप्ता निद्रा बल पराजिता ॥५-१०-४७॥
अन्या कमल पत्र अक्षी पूर्ण इन्दु सद्र्श आनना ।अन्याम् आलिन्ग्य सुश्रोणी प्रसुप्ता मद विह्वला ॥५-१०-४८॥
आतोद्यानि विचित्राणि परिष्वज्य वर स्त्रियः ।निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान् इव ॥५-१०-४९॥
तासाम् एक अन्त विन्यस्ते शयानाम् शयने शुभे ।ददर्श रूप सम्पन्नाम् अपराम् स कपिः स्त्रियम् ॥५-१०-५०॥
मुक्ता मणि समायुक्तैर् भूषणैः सुविभूषिताम् ।विभूषयन्तीम् इव च स्व श्रिया भवन उत्तमम् ॥५-१०-५१॥
गौरीम् कनक वर्ण आभाम् इष्टाम् अन्तः पुर ईश्वरीम् ।कपिर् मन्द उदरीम् तत्र शयानाम् चारु रूपिणीम् ॥५-१०-५२॥
स ताम् दृष्ट्वा महा बाहुर् भूषिताम् मारुत आत्मजः ।तर्कयाम् आस सीता इति रूप यौवन सम्पदा ॥५-१०-५३॥
हर्षेण महता युक्तो ननन्द हरि यूथपः ।आश्पोटयाम् आस चुचुम्ब पुच्चम् ।ननन्द चिक्रीड जगौ जगाम।स्तम्भान् अरोहन् निपपात भूमौ ।निदर्शयन् स्वाम् प्रक्र्तिम् कपीनाम् ॥५-१०-५४॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 9
- Next: Sundara-Kāṇḍa Sarga 11 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷