🪷 सुन्दरकाण्ड · Sarga 11

Sundara-Kāṇḍa · The Book of Beauty · Sarga 11 · 47 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 5.11local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 5.11.1
अवधूय च ताम् बुद्धिम् बभूव अवस्थितः तदा ।जगाम च अपराम् चिन्ताम् सीताम् प्रति महा कपिः ॥५-११-१॥
Vālmīki 5.11.2
न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी ।न भोक्तुम् न अपि अलम्कर्तुम् न पानम् उपसेवितुम् ॥५-११-२॥
Vālmīki 5.11.3
न अन्यम् नरम् उपस्थातुम् सुराणाम् अपि च ईश्वरम् ।न हि राम समः कश्चिद् विद्यते त्रिदशेष्व् अपि ॥५-११-३॥
Vālmīki 5.11.4
अन्या इयम् इति निश्चित्य पान भूमौ चचार सः ।क्रीडितेन अपराः क्लान्ता गीतेन च तथा पराः ॥५-११-४॥
Vālmīki 5.11.5
नृत्तेन च अपराः क्लान्ताः पान विप्रहताः तथा ।मुरजेषु म्Rदन्गेषु पीठिकासु च सम्स्थिताः ॥५-११-५॥
Vālmīki 5.11.6
तथा आस्तरण मुख्य्येषु सम्विष्टाः च अपराः स्त्रियः ।अङ्गनानाम् सहस्रेण भूषितेन विभूषणैः ॥५-११-६॥
Vālmīki 5.11.7
रूप सम्ल्लाप शीलेन युक्त गीत अर्थ भाषिणा ।देश काल अभियुक्तेन युक्त वाक्य अभिधायिना ॥५-११-७॥
Vālmīki 5.11.8
रत अभिरत सम्सुप्तम् ददर्श हरि यूथपः ।तासाम् मध्ये महा बाहुः शुशुभे राक्षस ईश्वरः ॥५-११-८॥
Vālmīki 5.11.9
गोष्ठे महति मुख्यानाम् गवाम् मध्ये यथा वृषः ।स राक्षस इन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥५-११-९॥
Vālmīki 5.11.10
करेणुभिर् यथा अरण्यम् परिकीर्णो महा द्विपः ।सर्व कामैर् उपेताम् च पान भूमिम् महात्मनः ॥५-११-१०॥
Vālmīki 5.11.11
ददर्श कपि शार्दूलः तस्य रक्षः पतेर् गृहे ।मृगाणाम् महिषाणाम् च वराहाणाम् च भागशः ॥५-११-११॥
Vālmīki 5.11.12
तत्र न्यस्तानि माम्सानि पान भूमौ ददर्श सः ।रौक्मेषु च विशलेषु भाजनेष्व् अर्ध भक्षितान् ॥५-११-१२॥
Vālmīki 5.11.13
ददर्श कपि शार्दूल मयूरान् कुक्कुटामः तथा ।वराह वार्ध्राणसकान् दधि सौवर्चल आयुतान् ॥५-११-१३॥
Vālmīki 5.11.14
शल्यान् म्Rग मयूरामः च हनूमान् अन्ववैक्षत ।कृकरान् विविधान् सिद्धामः चकोरान् अर्ध भक्षितान् ॥५-११-१४॥
Vālmīki 5.11.15
महिषान् एक शल्यामः च चागामः च कृत निष्ठितान् ।लेख्यम् उच्च अवचम् पेयम् भोज्यानि विविधानि च ॥५-११-१५॥
Vālmīki 5.11.16
तथा अम्ल लवण उत्तम्सैर् विविधै राग षाडवैः ।हार नूपुर केयूरैर् अपविद्धैर् महा धनैः ॥५-११-१६॥
Vālmīki 5.11.17
पान भाजन विक्षिप्तैः फलैः च विविधैर् अपि ।कृत पुष्प उपहारा भूर् अधिकम् पुष्यति श्रियम् ॥५-११-१७॥
Vālmīki 5.11.18
तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयन आसनैः ।पान भूमिर् विना वह्निम् प्रदीप्ता इव उपलक्ष्यते ॥५-११-१८॥
Vālmīki 5.11.19
बहु प्रकारैर् विविधैर् वर सम्स्कार सम्स्कृतैः ।माम्सैः कुशल सम्युक्तैः पान भूमि गतैः पृथक् ॥५-११-१९॥
Vālmīki 5.11.20
दिव्याः प्रसन्ना विविधाः सुराः कृत सुरा अपि ।शर्कर आसव माध्वीकाः पुष्प आसव फल आसवाः ॥५-११-२०॥
Vālmīki 5.11.21
वास चूर्णैः च विविधैर् मृष्टाः तैः तैः पृथक् पृथक् ।सम्तता शुशुभे भूमिर् माल्यैः च बहु सम्स्थितैः ॥५-११-२१॥
Vālmīki 5.11.22
हिरण्मयैः च करकैर् भाजनैः स्फाटिकैर् अपि ।जाम्बूनदमयैश्चान्याः करकैरभिवम्वृता ॥५-११-२२॥
Vālmīki 5.11.23
राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ।पान श्रेष्ठम् तदा भूरि कपिः तत्र ददर्श ह ॥५-११-२३॥
Vālmīki 5.11.24
सो अपश्यत् शात कुम्भानि शीधोर् मणिमयानि च ।राजतानि च पूर्णानि भाजनानि महा कपिः ॥५-११-२४॥
Vālmīki 5.11.25
क्वचिद् अर्ध अवशेषाणि क्वचित् पीतानि सर्वशः ।क्वचिन् न एव प्रपीतानि पानानि स ददर्श ह ॥५-११-२५॥
Vālmīki 5.11.26
क्वचिद् भक्ष्यामः च विविधान् क्वचित् पानानि भागशः ।क्वचिद् अन्न अवशेषाणि पश्यन् वै विचचार ह ॥५-११-२६॥
Vālmīki 5.11.27
क्वचित् प्रभिन्नैः करकैः क्वचिद् आलोडितैर् घटैः ।क्वचित् सम्पृक्त माल्यानि जलानि च फलानि च ॥५-११-२७॥
Vālmīki 5.11.28
शयनानि अत्र नारीणाम् शून्यानि बहुधा पुनः ।परस्परम् समाश्लिष्य काश्चित् सुप्ता वर अन्गनाः ॥५-११-२८॥
Vālmīki 5.11.29
काचिच् च वस्त्रम् अन्यस्या अपह्Rत्य उपगुह्य च ।उपगम्य अबला सुप्ता निद्रा बल पराजिता ॥५-११-२९॥
Vālmīki 5.11.30
तासाम् उच्च्वास वातेन वस्त्रम् माल्यम् च गात्रजम् ।न अत्यर्थम् स्पन्दते चित्रम् प्राप्य मन्दम् इव अनिलम् ॥५-११-३०॥
Vālmīki 5.11.31
चन्दनस्य च शीतस्य शीधोर् मधु रसस्य च ।विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥५-११-३१॥
Vālmīki 5.11.32
बहुधा मारुतः तत्र गन्धम् विविधम् उद्वहन् ।स्नानानाम् चन्दनानाम् च धूपानाम् चैव मूर्चितः ।प्रववौ सुरभिर् गन्धो विमाने पुष्पके तदा ॥५-११-३२॥
Vālmīki 5.11.33
श्याम अवदाताः तत्र अन्याः काश्चित् कृष्णा वर अन्गनाः ॥५-११-३३॥
Vālmīki 5.11.34
काश्चित् कान्चन वर्ण अन्ग्यः प्रमदा राक्षस आलये ।तासाम् निद्रा वशत्वाच् च मदनेन विमूर्चितम् ॥५-११-३४॥
Vālmīki 5.11.35
पद्मिनीनाम् प्रसुप्तानाम् रूपम् आसीद् यथैव हि ।एवम् सर्वम् अशेषेण रावण अन्तः पुरम् कपिः ॥५-११-३५॥
Vālmīki 5.11.36
ददर्श सुमहा तेजा न ददर्श च जानकीम् ।निरीक्षमाणः च ततः ताः स्त्रियः स महा कपिः ॥५-११-३६॥
Vālmīki 5.11.37
जगाम महतीम् चिन्ताम् धर्म साध्वस शन्कितः ।पर दार अवरोधस्य प्रसुप्तस्य निरीक्षणम् ॥५-११-३७॥
Vālmīki 5.11.38
इदम् खलु मम अत्यर्थम् धर्म लोपम् करिष्यति ।न हि मे पर दाराणाम् दृष्टिर् विषय वर्तिनी ॥५-११-३८॥
Vālmīki 5.11.39
अयम् च अत्र मया दृष्टः पर दार परिग्रहः ।तस्य प्रादुर् अभूच् चिन्ता पुनर् अन्या मनस्विनः ॥५-११-३९॥
Vālmīki 5.11.40
निश्चित एक अन्त चित्तस्य कार्य निश्चय दर्शिनी ।कामम् दृष्ट्वा मया सर्वा विश्वस्ता रावण स्त्रियः ॥५-११-४०॥
Vālmīki 5.11.41
न तु मे मनसः किम्चिद् वैकृत्यम् उपपद्यते ।मनो हि हेतुः सर्वेषाम् इन्द्रियाणाम् प्रवर्तते ॥५-११-४१॥
Vālmīki 5.11.42
शुभ अशुभास्व् अवस्थासु तच् च मे सुव्यवस्थितम् ।न अन्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥५-११-४२॥
Vālmīki 5.11.43
स्त्रियो हि स्त्रीषु द्Rश्यन्ते सदा सम्परिमार्गणे ।यस्य सत्त्वस्य या योनिः तस्याम् तत् परिमार्ग्यते ॥५-११-४३॥
Vālmīki 5.11.44
न शक्यम् प्रमदा नष्टा मृगीषु परिमार्गितुम् ।तद् इदम् मार्गितम् तावत् शुद्धेन मनसा मया ॥५-११-४४॥
Vālmīki 5.11.45
रावण अन्तः पुरम् सरम् दृश्यते न च जानकी ।देव गन्धर्व कन्याः च नाग कन्याः च वीर्यवान् ॥५-११-४५॥
Vālmīki 5.11.46
अवेक्षमाणो हनुमान् न एव अपश्यत जानकीम् ।ताम् अपश्यन् कपिः तत्र पश्यमः च अन्या वर स्त्रियः ॥५-११-४६॥
Vālmīki 5.11.47
अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे ।स भूयस्तु परम् श्रीमान् मारुतिर्यत्नमास्थितः ॥५-११-४७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷