🪷 सुन्दरकाण्ड · Sarga 12

Sundara-Kāṇḍa · The Book of Beauty · Sarga 12 · 25 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 5.12local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 5.12.1
स तस्य मध्ये भवनस्य वानरो ।लता ग्Rहामः चित्र गृहान् निशा गृहान् ।जगाम सीताम् प्रति दर्शन उत्सुको ।न च एव ताम् पश्यति चारु दर्शनाम् ॥५-१२-१॥
Vālmīki 5.12.2
स चिन्तयाम् आस ततो महा कपिः ।प्रियाम् अपश्यन् रघु नन्दनस्य ताम् ।ध्रुवम् नु सीता म्रियते यथा न मे ।विचिन्वतो दर्शनम् एति मैथिली ॥५-१२-२॥
Vālmīki 5.12.3
सा राक्षसानाम् प्रवरेण बाला ।स्व शील सम्रक्षण तत् परा सती ।अनेन नूनम् प्रतिदुष्ट कर्मणा ।हता भवेद् आर्य पथे परे स्थिता ॥५-१२-३॥
Vālmīki 5.12.4
विरूप रूपा विकृता विवर्चसो ।महा आनना दीर्घ विरूप दर्शनाः ।समीक्ष्य सा राक्षस राज योषितो ।भयाद् विनष्टा जनक ईश्वर आत्मजा॥५-१२-४॥
Vālmīki 5.12.5
सीताम् अद्Rष्ट्वा हि अनवाप्य पौरुषम् ।विह्Rत्य कालम् सह वानरैः चिरम् ।न मे अस्ति सुग्रीव समीपगा गतिः ।सुतीक्ष्ण दण्डो बलवामः च वानरः ॥५-१२-५॥
Vālmīki 5.12.6
दृष्टम् अन्तः पुरम् सर्वम् दृष्ट्वा रावण योषितः ।न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥५-१२-६॥
Vālmīki 5.12.7
किम् नु माम् वानराः सर्वे गतम् वक्ष्यन्ति सम्गताः ।गत्वा तत्र त्वया वीर किम् कृतम् तद् वदस्व नः ॥५-१२-७॥
Vālmīki 5.12.8
अदृष्ट्वा किम् प्रवक्ष्यामि ताम् अहम् जनक आत्मजाम् ।ध्रुवम् प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने ॥५-१२-८॥
Vālmīki 5.12.9
किम् वा वक्ष्यति व्Rद्धः च जाम्बवान् अन्गदः च सः ।गतम् पारम् समुद्रस्य वानराः च समागताः ॥५-१२-९॥
Vālmīki 5.12.10
अनिर्वेदः श्रियो मूलम् अनिर्वेदः परम् सुखम् ।अनिर्वेदो हि सततम् सर्व अर्थेषु प्रवर्तकः ॥५-१२-१०॥
Vālmīki 5.12.11
करोति सफलम् जन्तोः कर्म यच् च करोति सः ।तस्माद् अनिर्वेद क्Rतम् यत्नम् चेष्टे अहम् उत्तमम् ॥५-१२-११॥
Vālmīki 5.12.12
अदृष्टामः च विचेष्यामि देशान् रावण पालितान् ।आपान शाला विचिताः तथा पुष्प गृहाणि च ॥५-१२-१२॥
Vālmīki 5.12.13
चित्र शालाः च विचिता भूयः क्रीडा गृहाणि च ।निष्कुट अन्तर रथ्याः च विमानानि च सर्वशः ॥५-१२-१३॥
Vālmīki 5.12.14
इति सम्चिन्त्य भूयो अपि विचेतुम् उपचक्रमे ।भूमी गृहामः चैत्य गृहान् गृह अतिगृहकान् अपि ॥५-१२-१४॥
Vālmīki 5.12.15
उत्पतन् निपतमः च अपि तिष्ठन् गच्चन् पुनः क्वचित् ।अपावृण्वमः च द्वाराणि कपाटानि अवघट्टयन् ॥५-१२-१५॥
Vālmīki 5.12.16
प्रविशन् निष्पतमः च अपि प्रपतन्न् उत्पतन्न् अपि ।सर्वम् अपि अवकाशम् स विचचार महा कपिः ॥५-१२-१६॥
Vālmīki 5.12.17
चतुर् अन्गुल मात्रो अपि न अवकाशः स विद्यते ।रावण अन्तः पुरे तस्मिन् यम् कपिर् न जगाम सः ॥५-१२-१७॥
Vālmīki 5.12.18
प्राकर अन्तर रथ्याः च वेदिकः चैत्य सम्श्रयाः ।श्वभ्राः च पुष्करिण्यः च सर्वम् तेन अवलोकितम् ॥५-१२-१८॥
Vālmīki 5.12.19
राक्षस्यो विविध आकारा विरूपा विकृताः तथा ।दृष्टा हनूमता तत्र न तु सा जनक आत्मजा ॥५-१२-१९॥
Vālmīki 5.12.20
रूपेण अप्रतिमा लोके वरा विद्या धर स्त्रियः ।दृटा हनूमता तत्र न तु राघव नन्दिनी ॥५-१२-२०॥
Vālmīki 5.12.21
नाग कन्या वर आरोहाः पूर्ण चन्द्र निभ आननाः ।दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ॥५-१२-२१॥
Vālmīki 5.12.22
प्रमथ्य राक्षस इन्द्रेण नाग कन्या बलाद्द् हृताः ।दृष्टा हनूमता तत्र न सा जनक नन्दिनी ॥५-१२-२२॥
Vālmīki 5.12.23
सो अपश्यमः ताम् महा बाहुः पश्यमः च अन्या वर स्त्रियः ।विषसाद महा बाहुर् हनूमान् मारुत आत्मजः ॥५-१२-२३॥
Vālmīki 5.12.24
उद्योगम् वानर इन्द्राणम् प्लवनम् सागरस्य च ।व्यर्थम् वीक्ष्य अनिल सुतः चिन्ताम् पुनर् उपागमत् ॥५-१२-२४॥
Vālmīki 5.12.25
अवतीर्य विमानाच् च हनूमान् मारुत आत्मजः ।चिन्ताम् उपजगाम अथ शोक उपहत चेतनः ॥५-१२-२५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷