🪷 सुन्दरकाण्ड · Sarga 13

Sundara-Kāṇḍa · The Book of Beauty · Sarga 13 · 69 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 5.13local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 5.13.1
विमानात् तु सुसम्क्रम्य प्राकारम् हरि यूथपः ।हनूमान् वेगवान् आसीद् यथा विद्युद् घन अन्तरे ॥५-१३-१॥
Vālmīki 5.13.2
सम्परिक्रम्य हनुमान् रावणस्य निवेशनान् ।अदृष्ट्वा जानकीम् सीताम् अब्रवीद् वचनम् कपिः ॥५-१३-२॥
Vālmīki 5.13.3
भूयिष्ठम् लोडिता लन्का रामस्य चरता प्रियम् ।न हि पश्यामि वैदेहीम् सीताम् सर्व अन्ग शोभनाम् ॥५-१३-३॥
Vālmīki 5.13.4
पल्वलानि तटाकानि सराम्सि सरितः तथा ।नद्यो अनूपवन अन्ताः च दुर्गाः च धरणी धराः ॥५-१३-४॥
Vālmīki 5.13.5
लोडिता वसुधा सर्वा न च पश्यामि जानकीम् ।इह सम्पातिना सीता रावणस्य निवेशने ॥५-१३-५॥
Vālmīki 5.13.6
आख्याता गृध्र राजेन न च पश्यामि ताम् अहम् ।किम् नु सीता अथ वैदेही मैथिली जनक आत्मजा ॥५-१३-६॥
Vālmīki 5.13.7
उपतिष्ठेत विवशा रावणम् दुष्ट चारिणम् ।क्षिप्रम् उत्पततो मन्ये सीताम् आदाय रक्षसः ॥५-१३-७॥
Vālmīki 5.13.8
बिभ्यतो राम बाणानाम् अन्तरा पतिता भवेत् ।अथवा ह्रियमाणायाः पथि सिद्ध निषेविते ॥५-१३-८॥
Vālmīki 5.13.9
मन्ये पतितम् आर्याया हृदयम् प्रेक्ष्य सागरम् ।रावणस्य ऊरु वेगेन भुजाभ्याम् पीडितेन च ॥५-१३-९॥
Vālmīki 5.13.10
तया मन्ये विशाल अक्ष्या त्यक्तम् जीवितम् आर्यया ।उपरि उपरि वा नूनम् सागरम् क्रमतः तदा ॥५-१३-१०॥
Vālmīki 5.13.11
विवेष्टमाना पतिता समुद्रे जनक आत्मजा ।आहो क्षुद्रेण च अनेन रक्षन्ती शीलम् आत्मनः ॥५-१३-११॥
Vālmīki 5.13.12
अबन्धुर् भक्षिता सीता रावणेन तपस्विनी ।अथवा राक्षस इन्द्रस्य पत्नीभिर् असित ईक्षणा ॥५-१३-१२॥
Vālmīki 5.13.13
अदुष्टा दुष्ट भावाभिर् भक्षिता सा भविष्यति ।सम्पूर्ण चन्द्र प्रतिमम् पद्म पत्र निभ ईक्षणम् ॥५-१३-१३॥
Vālmīki 5.13.14
रामस्य ध्यायती वक्त्रम् पन्चत्वम् कृपणा गता ।हा राम लक्ष्मण इति एव हा अयोध्येति च मैथिली ॥५-१३-१४॥
Vālmīki 5.13.15
विलप्य बहु वैदेही न्यस्त देहा भविष्यति ।अथवा निहिता मन्ये रावणस्य निवेशने ॥५-१३-१५॥
Vālmīki 5.13.16
नूनम् लालप्यते मन्दम् पन्जरस्था इव शारिका ।जनकस्य कुले जाता राम पत्नी सुमध्यमा ॥५-१३-१६॥
Vālmīki 5.13.17
कथम् उत्पल पत्र अक्षी रावणस्य वशम् व्रजेत् ।विनष्टा वा प्रनष्टा वा मृता वा जनक आत्मजा ॥५-१३-१७॥
Vālmīki 5.13.18
रामस्य प्रिय भार्यस्य न निवेदयितुम् क्षमम् ।निवेद्यमाने दोषः स्याद् दोषः स्याद् अनिवेदने ॥५-१३-१८॥
Vālmīki 5.13.19
कथम् नु खलु कर्तव्यम् विषमम् प्रतिभाति मे ।अस्मिन्न् एवम् गते कर्ये प्राप्त कालम् क्षमम् च किम् ॥५-१३-१९॥
Vālmīki 5.13.20
भवेद् इति मतिम् भूयो हनुमान् प्रविचारयन् ।यदि सीताम् अदृष्ट्वा अहम् वानर इन्द्र पुरीम् इतः ॥५-१३-२०॥
Vālmīki 5.13.21
गमिष्यामि ततः को मे पुरुष अर्थो भविष्यति ।मम इदम् लन्घनम् व्यर्थम् सागरस्य भविष्यति ॥५-१३-२१॥
Vālmīki 5.13.22
प्रवेशः चिव लन्काया राक्षसानाम् च दर्शनम् ।किम् वा वक्ष्यति सुग्रीवो हरयो व समागताः ॥५-१३-२२॥
Vālmīki 5.13.23
किष्किन्धाम् समनुप्राप्तौ तौ वा दशरथ आत्मजौ ।गत्वा तु यदि काकुत्स्थम् वक्ष्यामि परम् अप्रियम् ॥५-१३-२३॥
Vālmīki 5.13.24
न दृष्टा इति मया सीता ततः त्यक्ष्यन्ति जीवितम् ।परुषम् दारुणम् क्रूरम् तीक्ष्णम् इन्द्रिय तापनम् ॥५-१३-२४॥
Vālmīki 5.13.25
सीता निमित्तम् दुर्वाक्यम् श्रुत्वा स न भविष्यति ।तम् तु कृच्च्र गतम् दृष्ट्वा पन्चत्व गत मानसम् ॥५-१३-२५॥
Vālmīki 5.13.26
भृश अनुरक्तो मेधावी न भविष्यति लक्ष्मणः ।विनष्टौ भ्रातरौ श्रुत्वा भरतो अपि मरिष्यति ॥५-१३-२६॥
Vālmīki 5.13.27
भरतम् च मृतम् दृष्ट्वा शत्रुघ्नो न भविष्यति ।पुत्रान् मृतान् समीक्ष्य अथ न भविष्यन्ति मातरः ॥५-१३-२७॥
Vālmīki 5.13.28
कौसल्या च सुमित्रा च कैकेयी च न सम्शयः ।कृतज्ञः सत्य सम्धः च सुग्रीवः प्लवग अधिपः ॥५-१३-२८॥
Vālmīki 5.13.29
रामम् तथा गतम् दृष्ट्वा ततः त्यक्ष्यन्ति जीवितम् ।दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥५-१३-२९॥
Vālmīki 5.13.30
पीडिता भर्तृ शोकेन रुमा त्यक्ष्यति जीवितम् ।वालिजेन तु दुह्खेन पीडिता शोक कर्शिता ॥५-१३-३०॥
Vālmīki 5.13.31
पन्चत्व गमने राज्ञः तारा अपि न भविष्यति ।माता पित्रोर् विनाशेन सुग्रीव व्यसनेन च ॥५-१३-३१॥
Vālmīki 5.13.32
कुमारो अपि अन्गदः कस्माद् धारयिष्यति जीवितम् ।भर्तृजेन तु शोकेन अभिभूता वन ओकसः ॥५-१३-३२॥
Vālmīki 5.13.33
शिराम्सि अभिहनिष्यन्ति तलैर् मुष्टिभिर् एव च ।सान्त्वेन अनुप्रदानेन मानेन च यशस्विना ॥५-१३-३३॥
Vālmīki 5.13.34
लालिताः कपि राजेन प्राणामः त्यक्ष्यन्ति वानराः ।न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥५-१३-३४॥
Vālmīki 5.13.35
क्रीडाम् अनुभविष्यन्ति समेत्य कपि कुन्जराः ।सपुत्र दाराः सामात्या भर्तृ व्यसन पीडिताः ॥५-१३-३५॥
Vālmīki 5.13.36
शैल अग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ।विषम् उद्बन्धनम् वा अपि प्रवेशम् ज्वलनस्य वा ॥५-१३-३६॥
Vālmīki 5.13.37
उपवासम् अथो शस्त्रम् प्रचरिष्यन्ति वानराः ।घोरम् आरोदनम् मन्ये गते मयि भविष्यति ॥५-१३-३७॥
Vālmīki 5.13.38
इक्ष्वाकु कुल नाशः च नाशः चैव वन ओकसाम् ।सो अहम् न एव गमिष्यामि किष्किन्धाम् नगरीम् इतः ॥५-१३-३८॥
Vālmīki 5.13.39
न हि शक्ष्यामि अहम् द्रष्टुम् सुग्रीवम् मैथिलीम् विना ।मयि अगच्चति च इहस्थे धर्म आत्मानौ महा रथौ ॥५-१३-३९॥
Vālmīki 5.13.40
आशया तौ धरिष्येते वनराः च मनस्विनः ।हस्त आदानो मुख आदानो नियतो वृक्ष मूलिकः ॥५-१३-४०॥
Vālmīki 5.13.41
वानप्रस्थो भविष्यामि अदृष्ट्वा जनक आत्मजाम् ।सागर अनूपजे देशे बहु मूल फल उदके ॥५-१३-४१॥
Vālmīki 5.13.42
चिताम् कृत्वा प्रवेक्ष्यामि समिद्धम् अरणी सुतम् ।उपविष्टस्य वा सम्यग् लिन्गिनम् साधयिष्यतः ॥५-१३-४२॥
Vālmīki 5.13.43
शरीरम् भक्षयिष्यन्ति वायसाः श्वापदानि च ।इदम् अपि ऋषिभिर् दृष्टम् निर्याणम् इति मे मतिः ॥५-१३-४३॥
Vālmīki 5.13.44
सम्यग् आपः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम् ।सुजात मूला सुभगा कीर्ति माला यशस्विनी ॥५-१३-४४॥
Vālmīki 5.13.45
प्रभग्ना चिर रात्री इयम् मम सीताम् अपश्यतः ।तापसो वा भविष्यामि नियतो वृक्ष मूलिकः ॥५-१३-४५॥
Vālmīki 5.13.46
न इतः प्रतिगमिष्यामि ताम् अदृष्ट्वा असित ईक्षणाम् ।यदि इतः प्रतिगच्चामि सीताम् अनधिगम्य ताम् ॥५-१३-४६॥
Vālmīki 5.13.47
अन्गदः सहितैः सर्वैर् वानरैर् न भविष्यति ।विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् ॥५-१३-४७॥
Vālmīki 5.13.48
तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति सम्गमः ।एवम् बहु विधम् दुह्खम् मनसा धारयन् मुहुः ॥५-१३-४८॥
Vālmīki 5.13.49
न अध्यगच्चत् तदा पारम् शोकस्य कपि कुन्जरः ।रावणम् वा वधिष्यामि दशग्रीवम् महा बलम् ॥५-१३-४९॥
Vālmīki 5.13.50
कामम् अस्तु हृता सीता प्रत्याचीर्णम् भविष्यति ।अथवा एनम् समुत्क्षिप्य उपरि उपरि सागरम् ॥५-१३-५०॥
Vālmīki 5.13.51
रामाय उपहरिष्यामि पशुम् पशु पतेर् इव ।इति चिन्ता समापन्नः सीताम् अनधिगम्य ताम् ॥५-१३-५१॥
Vālmīki 5.13.52
ध्यान शोका परीत आत्मा चिन्तयाम् आस वानरः ।यावत् सीताम् न पश्यामि राम पत्नीम् यशस्विनीम् ॥५-१३-५२॥
Vālmīki 5.13.53
तावद् एताम् पुरीम् लन्काम् विचिनोमि पुनः पुनः ।सम्पाति वचनाच् च अपि रामम् यदि आनयामि अहम् ॥५-१३-५३॥
Vālmīki 5.13.54
अपश्यन् राघवो भार्याम् निर्दहेत् सर्व वानरान् ।इह एव नियत आहारो वत्स्यामि नियत इन्द्रियः ॥५-१३-५४॥
Vālmīki 5.13.55
न मत् कृते विनश्येयुः सर्वे ते नर वानराः ।अशोक वनिका च अपि महती इयम् महा द्रुमा ॥५-१३-५५॥
Vālmīki 5.13.56
इमाम् अभिगमिष्यामि न हि इयम् विचिता मया ।वसून् रुद्रामः तथा आदित्यान् अश्विनौ मरुतो अपि च ॥५-१३-५६॥
Vālmīki 5.13.57
नमः कृत्वा गमिष्यामि रक्षसाम् शोक वर्धनः ।जित्वा तु राक्षसान् देवीम् इक्ष्वाकु कुल नन्दिनीम् ॥५-१३-५७॥
Vālmīki 5.13.58
सम्प्रदास्यामि रामाया यथा सिद्धिम् तपस्विने ।स मुहूर्तम् इव ध्यात्वा चिन्ता विग्रथित इन्द्रियः ॥५-१३-५८॥
Vālmīki 5.13.59
उदतिष्ठन् महा बाहुर् हनूमान् मारुत आत्मजः ।नमो अस्तु रामाय सलक्ष्मणाय ।देव्यै च तस्यै जनक आत्मजायै ।नमो अस्तु रुद्र इन्द्र यम अनिलेभ्यो ।नमो अस्तु चन्द्र अर्क मरुद् गणेभ्यः ॥५-१३-५९॥
Vālmīki 5.13.60
स तेभ्यः तु नमः कृत्वा सुग्रीवाय च मारुतिः ।दिशः सर्वाः समालोक्य अशोक वनिकाम् प्रति ॥५-१३-६०॥
Vālmīki 5.13.61
स गत्वा मनसा पूर्वम् अशोक वनिकाम् शुभाम् ।उत्तरम् चिन्तयाम् आस वानरो मारुत आत्मजः ॥५-१३-६१॥
Vālmīki 5.13.62
ध्रुवम् तु रक्षो बहुला भविष्यति वन आकुला ।अशोक वनिका चिन्त्या सर्व सम्स्कार सम्स्कृता ॥५-१३-६२॥
Vālmīki 5.13.63
रक्षिणः च अत्र विहिता नूनम् रक्षन्ति पादपान् ।भगवान् अपि सर्व आत्मा न अतिक्षोभम् प्रवायति ॥५-१३-६३॥
Vālmīki 5.13.64
सम्क्षिप्तो अयम् मया आत्मा च राम अर्थे रावणस्य च ।सिद्धिम् मे सम्विधास्यन्ति देवाः सर्षि गणाः त्व् इह ॥५-१३-६४॥
Vālmīki 5.13.65
ब्रह्मा स्वयम्भूर् भगवान् देवाः चैव दिशन्तु मे ।सिद्धिम् अग्निः च वायुः च पुरु हूतः च वज्रधृत् ॥५-१३-६५॥
Vālmīki 5.13.66
वरुणः पाश हस्तः च सोम आदित्यै तथैव च ।अश्विनौ च महात्मानौ मरुतः सर्व एव च ॥५-१३-६६॥
Vālmīki 5.13.67
सिद्धिम् सर्वाणि भूतानि भूतानाम् चैव यः प्रभुः ।दास्यन्ति मम ये च अन्ये अदृष्टाः पथि गोचराः ॥५-१३-६७॥
Vālmīki 5.13.68
तद् उन्नसम् पाण्डुर दन्तम् अव्रणम् ।शुचि स्मितम् पद्म पलाश लोचनम् ।द्रक्ष्ये तद् आर्या वदनम् कदा न्व् अहम् ।प्रसन्न तारा अधिप तुल्य दर्शनम् ॥५-१३-६८॥
Vālmīki 5.13.69
क्षुद्रेण पापेन नृशम्स कर्मणा ।सुदारुण अलाम्कृत वेष धारिणा।बल अभिभूता अबला तपस्विनी ।कथम् नु मे दृष्ट पथे अद्य सा भवेत् ॥५-१३-६९॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷