🪷 सुन्दरकाण्ड · Sarga 14

Sundara-Kāṇḍa · The Book of Beauty · Sarga 14 · 52 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 5.14local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 5.14.1
स मुहूर्तम् इव ध्यत्वा मनसा च अधिगम्य ताम् ।अवप्लुतो महा तेजाः प्राकारम् तस्य वेश्मनः ॥५-१४-१॥
Vālmīki 5.14.2
स तु सम्हृष्ट सर्व अन्गः प्राकारस्थो महा कपिः ।पुष्पित अग्रान् वसन्त आदौ ददर्श विविधान् द्रुमान् ॥५-१४-२॥
Vālmīki 5.14.3
सालान् अशोकान् भव्यामः च चम्पकामः च सुपुष्पितान् ।उद्दालकान् नाग वृक्षामः चूतान् कपि मुखान् अपि ॥५-१४-३॥
Vālmīki 5.14.4
अथ आम्र वण सम्चन्नाम् लता शत समावृताम् ।ज्या मुक्त इव नाराचः पुप्लुवे वृक्ष वाटिकाम् ॥५-१४-४॥
Vālmīki 5.14.5
स प्रविष्य विचित्राम् ताम् विहगैर् अभिनादिताम् ।राजतैः कान्चनैः चैव पादपैः सर्वतो वृताम् ॥५-१४-५॥
Vālmīki 5.14.6
विहगैर् मृग सम्घैः च विचित्राम् चित्र काननाम् ।उदित आदित्य सम्काशाम् ददर्श हनुमान् कपिः ॥५-१४-६॥
Vālmīki 5.14.7
वृताम् नाना विधैर् वृक्षैः पुष्प उपग फल उपगैः ।कोकिलैर् भृन्ग राजैः च मत्तैर् नित्य निषेविताम् ॥५-१४-७॥
Vālmīki 5.14.8
प्रहृष्ट मनुजे कले मृग पक्षि समाकुले ।मत्त बर्हिण सम्घुष्टाम् नाना द्विज गण आयुताम् ॥५-१४-८॥
Vālmīki 5.14.9
मार्गमाणो वर आरोहाम् राज पुत्रीम् अनिन्दिताम् ।सुख प्रसुप्तान् विहगान् बोधयाम् आस वानरः ॥५-१४-९॥
Vālmīki 5.14.10
उत्पतद्भिर् द्विज गणैः पक्षैः सालाः समाहताः ।अनेक वर्णा विविधा मुमुचुः पुष्प वृष्टयः ॥५-१४-१०॥
Vālmīki 5.14.11
पुष्प अवकीर्णः शुशुभे हनुमान् मारुत आत्मजः ।अशोक वनिका मध्ये यथा पुष्पमयो गिरिः ॥५-१४-११॥
Vālmīki 5.14.12
दिशः सर्व अभिदावन्तम् वृक्ष षण्ड गतम् कपिम् ।द्Rष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥५-१४-१२॥
Vālmīki 5.14.13
वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग् विधैः ।रराज वसुधा तत्र प्रमदा इव विभूषिता ॥५-१४-१३॥
Vālmīki 5.14.14
तरस्विना ते तरवः तरसा अभिप्रकम्पिताः ।कुसुमानि विचित्राणि सस्Rजुः कपिना तदा ॥५-१४-१४॥
Vālmīki 5.14.15
निर्धूत पत्र शिखराः शीर्ण पुष्प फल द्रुमाः ।निक्षिप्त वस्त्र आभरणा धूर्ता इव पराजिताः ॥५-१४-१५॥
Vālmīki 5.14.16
हनूमता वेगवता कम्पिताः ते नग उत्तमाः ।पुष्प पर्ण फलानि आशु मुमुचुः पुष्प शालिनः ॥५-१४-१६॥
Vālmīki 5.14.17
विहम्ग सम्घैर् हीनाः ते स्कन्ध मात्र आश्रया द्रुमाः ।बभूवुर् अगमाः सर्वे मारुतेन इव निर्धुताः ॥५-१४-१७॥
Vālmīki 5.14.18
विधूत केशी युवतिर् यथा मृदित वर्णिका ।निष्पीत शुभ दन्त ओष्ठी नखैर् दन्तैः च विक्षता ॥५-१४-१८॥
Vālmīki 5.14.19
तथा लान्गूल हस्तैः च चरणाभ्याम् च मर्दिता ।बभूव अशोक वनिका प्रभग्न वर पादपा ॥५-१४-१९॥
Vālmīki 5.14.20
महा लतानाम् दामानि व्यधमत् तरसा कपिः ।यथा प्रावृषि विन्ध्यस्य मेघ जालानि मारुतः ॥५-१४-२०॥
Vālmīki 5.14.21
स तत्र मणि भूमीः च राजतीः च मनो रमाः ।तथा कान्चन भूमीः च विचरन् ददृशे कपिः ॥५-१४-२१॥
Vālmīki 5.14.22
वापीः च विविध आकाराः पूर्णाः परम वारिणा ।महा अर्हैर् मणि सोपानैर् उपपन्नाः ततः ततः ॥५-१४-२२॥
Vālmīki 5.14.23
मुक्ता प्रवाल सिकता स्फटिक अन्तर कुट्टिमाः ।कान्चनैः तरुभिः चित्रैः तीरजैर् उपशोभिताः ॥५-१४-२३॥
Vālmīki 5.14.24
फुल्ल पद्म उत्पल वनाः चक्र वाक उपकूजिताः ।नत्यूह रुत सम्घुष्टा हम्स सारस नादिताः ॥५-१४-२४॥
Vālmīki 5.14.25
दीर्घाभिर् द्रुम युक्ताभिः सरिद्भिः च समन्ततः ।अम्Rत उपम तोयाभिः शिवाभिर् उपसम्स्कृताः ॥५-१४-२५॥
Vālmīki 5.14.26
लता शतैर् अवतताः सन्तानक समावृताः ।नाना गुल्म आवृत वनाः कर वीर कृत अन्तराः ॥५-१४-२६॥
Vālmīki 5.14.27
ततो अम्बु धर सम्काशम् प्रव्Rद्ध शिखरम् गिरिम् ।विचित्र कूटम् कूटैः च सर्वतः परिवारितम् ॥५-१४-२७॥
Vālmīki 5.14.28
शिला गृहैर् अवततम् नाना वृक्षैः समावृतम् ।ददर्श कपि शार्दूलो रम्यम् जगति पर्वतम् ॥५-१४-२८॥
Vālmīki 5.14.29
ददर्श च नगात् तस्मान् नदीम् निपतिताम् कपिः ।अन्काद् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम् ॥५-१४-२९॥
Vālmīki 5.14.30
जले निपतित अग्रैः च पादपैर् उपशोभिताम् ।वार्यमाणाम् इव क्रुद्धाम् प्रमदाम् प्रिय बन्धुभिः ॥५-१४-३०॥
Vālmīki 5.14.31
पुनर् आव्Rत्त तोयाम् च ददर्श स महा कपिः ।प्रसन्नाम् इव कान्तस्य कान्ताम् पुनर् उपस्थिताम् ॥५-१४-३१॥
Vālmīki 5.14.32
तस्य अदूरात् स पद्मिन्यो नाना द्विज गण आयुताः ।ददर्श कपि शार्दूलो हनुमान् मारुत आत्मजः ॥५-१४-३२॥
Vālmīki 5.14.33
कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा ।मणि प्रवर सोपानाम् मुख्ता सिकत शोभिताम् ॥५-१४-३३॥
Vālmīki 5.14.34
विविधैर् मृग सम्घैः च विचित्राम् चित्र काननाम् ।प्रासादैः सुमहद्भिः च निर्मितैर् विश्व कर्मणा ॥५-१४-३४॥
Vālmīki 5.14.35
काननैः कॄत्रिमैः च अपि सर्वतः समलम्कृताम् ।ये केचित् पादपाः तत्र पुष्प उपग फल उपगाः ॥५-१४-३५॥
Vālmīki 5.14.36
सच् चत्राः सवितर्दीकाः सर्वे सौवर्ण वेदिकाः ।लता प्रतानैः बहुभिः पर्णैः च बहुभिर् व्Rताम् ॥५-१४-३६॥
Vālmīki 5.14.37
काञ्चनीम् शिम्शुपाम् एकाम् ददर्श स महा कपिः ।वृताम् हेममयूभिस्तु वेदिकाभिः समन्ततः ॥५-१४-३७॥
Vālmīki 5.14.38
सो अपश्यद् भूमि भागामः च गर्त प्रस्रवणानि च ।सुवर्ण वृक्षान् अपरान् ददर्श शिखि सम्निभान् ॥५-१४-३८॥
Vālmīki 5.14.39
तेषाम् द्रुमाणाम् प्रभया मेरोर् इव महा कपिः ।अमन्यत तदा वीरः कान्चनो अस्मि इति वानरः ॥५-१४-३९॥
Vālmīki 5.14.40
ताम् कान्चनैः तरु गणैर् मारुतेन च वीजिताम् ।किन्किणी शत निर्घोषाम् दृष्ट्वा विस्मयम् आगमत् ॥५-१४-४०॥
Vālmīki 5.14.41
स पुष्पित अग्राम् रुचिराम् तरुण अन्कुर पल्लवाम् ।ताम् आरुह्य महा वेगः शिम्शपाम् पर्ण सम्व्Rताम् ॥५-१४-४१॥
Vālmīki 5.14.42
इतो द्रक्ष्यामि वैदेहीम् राम दर्शन लालसाम् ।इतः च इतः च दुह्ख आर्ताम् सम्पतन्तीम् यद्Rच्चया ॥५-१४-४२॥
Vālmīki 5.14.43
अशोक वनिका च इयम् दृढम् रम्या दुरात्मनः ।चम्पकैः चन्दनैः च अपि बकुलैः च विभूषिता ॥५-१४-४३॥
Vālmīki 5.14.44
इयम् च नलिनी रम्या द्विज सम्घ निषेविता ।इमाम् सा राम महिषी नूनम् एष्यति जानकी ॥५-१४-४४॥
Vālmīki 5.14.45
सा राम राम महिषी राघवस्य प्रिया सदा ।वन सम्चार कुशला नूनम् एष्यति जानकी ॥५-१४-४५॥
Vālmīki 5.14.46
अथवा मृग शाव अक्षी वनस्य अस्य विचक्षणा ।वनम् एष्यति सा च इह राम चिन्ता अनुकर्शिता ॥५-१४-४६॥
Vālmīki 5.14.47
राम शोक अभिसम्तप्ता सा देवी वाम लोचना ।वन वास रता नित्यम् एष्यते वन चारिणी ॥५-१४-४७॥
Vālmīki 5.14.48
वने चराणाम् सततम् नूनम् स्पृहयते पुरा ।रामस्य दयिता भार्या जनकस्य सुता सती॥५-१४-४८॥
Vālmīki 5.14.49
सम्ध्या काल मनाः श्यामा ध्रुवम् एष्यति जानकी ।नदीम् च इमाम् शिव जलाम् सम्ध्या अर्थे वर वर्णिनी ॥५-१४-४९॥
Vālmīki 5.14.50
तस्याः च अपि अनुरूपेयम् अशोक वनिका शुभा ।शुभा या पार्थिव इन्द्रस्य पत्नी रामस्य सम्मिता ॥५-१४-५०॥
Vālmīki 5.14.51
यदि जिवति सा देवी तारा अधिप निभ आनना ।आगमिष्यति सा अवश्यम् इमाम् शिव जलाम् नदीम् ॥५-१४-५१॥
Vālmīki 5.14.52
एवम् तु मत्वा हनुमान् महात्मा ।प्रतीक्षमाणो मनुज इन्द्र पत्नीम्।अवेक्षमाणः च ददर्श सर्वम् ।सुपुष्पिते पर्ण घने निलीनः ॥५-१४-५२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷