🪷 सुन्दरकाण्ड · Sarga 15
Sundara-Kāṇḍa · The Book of Beauty · Sarga 15 · 54 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.15local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स वीक्षमाणः तत्रस्थो मार्गमाणः च मैथिलीम् ।अवेक्षमाणः च महीम् सर्वाम् ताम् अन्ववैक्षत ॥५-१५-१॥
सन्तान कलताभिः च पादपैर् उपशोभिताम् ।दिव्य गन्ध रस उपेताम् सर्वतः समलम्कृताम् ॥५-१५-२॥
ताम् स नन्दन सम्काशाम् मृग पक्षिभिर् आवृताम् ।हर्म्य प्रासाद सम्बाधाम् कोकिल आकुल निह्स्वनाम् ॥५-१५-३॥
कान्चन उत्पल पद्माभिः वापीभिः उपशोभिताम् ।बह्व आसन कुथा उपेताम् बहु भूमि गृह आयुताम् ॥५-१५-४॥
सर्व ऋतु कुसुमैः रम्यैः फलवद्भिः च पादपैः ।पुष्पितानाम् अशोकानाम् श्रिया सूर्य उदय प्रभाम् ॥५-१५-५॥
प्रदीप्ताम् इव तत्रस्थो मारुतिः समुदैक्षत ।निष्पत्र शाखाम् विहगैः क्रियमाणाम् इव असकृत् ॥५-१५-६॥
विनिष्पतद्भिः शतशः चित्रैः पुष्प अवतम्सकैः ।आमूल पुष्प निचितैर् अशोकैः शोक नाशनैः ॥५-१५-७॥
पुष्प भार अतिभारैः च स्पृशद्भिर् इव मेदिनीम् ।कर्णिकारैः कुसुमितैः किम्शुकैः च सुपुष्पितैः ॥५-१५-८॥
स देशः प्रभया तेषाम् प्रदीप्त इव सर्वतः ।पुम्नागाः सप्त पर्णाः च चम्पक उद्दालकाः तथा ॥५-१५-९॥
विवृद्ध मूला बहवः शोभन्ते स्म सुपुष्पिताः ।शात कुम्भ निभाः केचित् केचिद् अग्नि शिख उपमाः ॥५-१५-१०॥
नील अन्जन निभाः केचित् तत्र अशोकाः सहस्रशः ।नन्दनम् विविध उद्यानम् चित्रम् चैत्ररथम् यथा ॥५-१५-११॥
अतिवृत्तम् इव अचिन्त्यम् दिव्यम् रम्यम् श्रिया वृतम् ।द्वितीयम् इव च आकाशम् पुष्प ज्योतिर् गण आयुतम् ॥५-१५-१२॥
पुष्प रत्न शतैः चित्रम् पन्चमम् सागरम् यथा ।सर्व ऋतु पुष्पैर् निचितम् पादपैर् मधु गन्धिभिः ॥५-१५-१३॥
नाना निनादैः उद्यानम् रम्यम् मृग गणैर् द्विजैः ।अनेक गन्ध प्रवहम् पुण्य गन्धम् मनो रमम् ॥५-१५-१४॥
शैल इन्द्रम् इव गन्ध आढ्यम् द्वितीयम् गन्ध मादनम् ।अशोक वनिकायाम् तु तस्याम् वानर पुम्गवः ॥५-१५-१५॥
स ददर्श अविदूरस्थम् चैत्य प्रासादम् ऊर्जितम् ।मध्ये स्तम्भ सहस्रेण स्थितम् कैलास पाण्डुरम् ॥५-१५-१६॥
प्रवाल कृत सोपानम् तप्त कान्चन वेदिकम् ।मुष्णन्तम् इव चक्षूम्षि द्योतमानम् इव श्रिया ॥५-१५-१७॥
विमलम् प्राम्शु भावत्वाद् उल्लिखन्तम् इव अम्बरम् ।ततो मलिन सम्वीताम् राक्षसीभिः समावृताम् ॥५-१५-१८॥
उपवास कृशाम् दीनाम् निह्श्वसन्तीम् पुनः पुनः ।ददर्श शुक्ल पक्ष आदौ चन्द्र रेखाम् इव अमलाम् ॥५-१५-१९॥
मन्द प्रख्यायमानेन रूपेण रुचिर प्रभाम् ।पिनद्धाम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-२०॥
पीतेन एकेन सम्वीताम् क्लिष्टेन उत्तम वाससा ।सपन्काम् अनलम्काराम् विपद्माम् इव पद्मिनीम् ॥५-१५-२१॥
व्रीडिताम् दुह्ख सम्तप्ताम् परिम्लानाम् तपस्विनीम् ।ग्रहेण अन्गारकेण एव पीडिताम् इव रोहिणीम् ॥५-१५-२२॥
अश्रु पूर्ण मुखीम् दीनाम् कृशाम् अननशेन च ।शोक ध्यान पराम् दीनाम् नित्यम् दुह्ख परायणाम् ॥५-१५-२३॥
प्रियम् जनम् अपश्यन्तीम् पश्यन्तीम् राक्षसी गणम् ।स्व गणेन मृगीम् हीनाम् श्व गण अभिवृताम् इव ॥५-१५-२४॥
नील नाग आभया वेण्या जघनम् गतया एकया ।नीलया नीरदापाये वनराज्या महीमिव ॥५-१५-२५॥
सुख अर्हाम् दुह्ख सम्तप्ताम् व्यसनानाम् अकोदिवाम् ।ताम् समीक्ष्य विशाल अक्षीम् अधिकम् मलिनाम् कृशाम् ॥५-१५-२६॥
तर्कयाम् आस सीता इति कारणैः उपपादिभिः ।ह्रियमाणा तदा तेन रक्षसा काम रूपिणा ॥५-१५-२७॥
यथा रूपा हि दृष्टा वै तथा रूपा इयम् अन्गना ।पूर्ण चन्द्र आननाम् सुभ्रूम् चारु वृत्त पयो धराम् ॥५-१५-२८॥
कुर्वन्तीम् प्रभया देवीम् सर्वा वितिमिरा दिशः ।ताम् नील केशीम् बिम्ब ओष्ठीम् सुमध्याम् सुप्रतिष्ठिताम् ॥५-१५-२९॥
सीताम् पद्म पलाश अक्षीम् मन्मथस्य रतिम् यथा ।इष्टाम् सर्वस्य जगतः पूर्ण चन्द्र प्रभाम् इव ॥५-१५-३०॥
भूमौ सुतनुम् आसीनाम् नियताम् इव तापसीम् ।निःश्वास बहुलाम् भीरुम् भुजग इन्द्र वधूम् इव ॥५-१५-३१॥
शोक जालेन महता विततेन न राजतीम् ।सम्सक्ताम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-३२॥
ताम् स्मृतीम् इव सम्दिघ्दाम् ऋद्धिम् निपतिताम् इव ।विहताम् इव च श्रद्धाम् आशाम् प्रतिहताम् इव ॥५-१५-३३॥
स उपसर्गाम् यथा सिद्धिम् बुद्धिम् सकलुषाम् इव ।अभूतेन अपवादेन कीर्तिम् निपतिताम् इव ॥५-१५-३४॥
राम उपरोध व्यथिताम् रक्षो हरण कर्शिताम् ।अबलाम् मृग शाव अक्षीम् वीक्षमाणाम् ततः ततः ॥५-१५-३५॥
बाष्प अम्बु प्रतिपूर्णेन कृष्ण वक्त्र अक्षि पक्ष्मणा ।वदनेन अप्रसन्नेन निह्श्वसन्तीम् पुनः पुनः ॥५-१५-३६॥
मल पन्क धराम् दीनाम् मण्डन अर्हाम् अमण्डिताम् ।प्रभाम् नक्षत्र राजस्य काल मेघैः इव आवृताम् ॥५-१५-३७॥
तस्य सम्दिदिहे बुद्धिः मुहुः सीताम् निरीक्ष्य तु ।आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव ॥५-१५-३८॥
दुह्खेन बुबुधे सीताम् हनुमान् अनलम्कृताम् ।सम्स्कारेण यथा हीनाम् वाचम् अर्थ अन्तरम् गताम् ॥५-१५-३९॥
ताम् समीक्ष्य विशाल अक्षीम् राज पुत्रीम् अनिन्दिताम् ।तर्कयाम् आस सीता इति कारणैः उपपादयन् ॥५-१५-४०॥
वैदेह्या यानि च अन्गेषु तदा रामो अन्वकीर्तयत् ।तानि आभरण जालानि गात्र शोभीनि अलक्षयत् ॥५-१५-४१॥
सुकृतौ कर्ण वेष्टौ च श्व दम्ष्ट्रौ च सुसम्स्थितौ ।मणि विद्रुम चित्राणि हस्तेष्व् आभरणानि च ॥५-१५-४२॥
श्यामानि चिर युक्तत्वात् तथा सम्स्थानवन्ति च ।तानि एव एतानि मन्ये अहम् यानि रामो अन्वकीर्तयत् ॥५-१५-४३॥
तत्र यानि अवहीनानि तानि अहम् न उपलक्षये ।यानि अस्या न अवहीनानि तानि इमानि न सम्शयः ॥५-१५-४४॥
पीतम् कनक पट्ट आभम् स्रस्तम् तद् वसनम् शुभम् ।उत्तरीयम् नग आसक्तम् तदा दृष्टम् प्लवम् गमैः ॥५-१५-४५॥
भूषणानि च मुख्यानि दृष्टानि धरणी तले ।अनया एव अपविद्धानि स्वनवन्ति महान्ति च ॥५-१५-४६॥
इदम् चिर गृहीतत्वाद् वसनम् क्लिष्टवत्तरम् ।तथा हि नूनम् तद् वर्णम् तथा श्रीमद् यथा इतरत् ॥५-१५-४७॥
इयम् कनक वर्ण अन्गी रामस्य महिषी प्रिया ।प्रनष्टा अपि सती यस्य मनसो न प्रणश्यति ॥५-१५-४८॥
इयम् सा यत् कृते रामः चतुर्भिः परितप्यते ।कारुण्येन आनृशम्स्येन शोकेन मदनेन च ॥५-१५-४९॥
स्त्री प्रनष्टा इति कारुण्याद् आश्रिता इति आनृशम्स्यतः ।पत्नी नष्टा इति शोकेन प्रियेति मदनेन च ॥५-१५-५०॥
अस्या देव्या यथा रूपम् अन्ग प्रत्यन्ग सौष्ठवम् ।रामस्य च यथा रूपम् तस्य इयम् असित ईक्षणा ॥५-१५-५१॥
अस्या देव्या मनः तस्मिमः तस्य च अस्याम् प्रतिष्ठितम् ।तेन इयम् स च धर्म आत्मा मुहूर्तम् अपि जीवति ॥५-१५-५२॥
दुष्करम् कुरुते रामो इमाम् मत्त काशिनीम् ।सीताम् विना महा बाहुः मुहूर्तम् अपि जीवति ॥५-१५-५३॥
एवम् सीताम् तदा दृष्ट्वा हृष्टः पवन सम्भवः ।जगाम मनसा रामम् प्रशशम्स च तम् प्रभुम् ॥५-१५-५४॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 14
- Next: Sundara-Kāṇḍa Sarga 16 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷