🪷 सुन्दरकाण्ड · Sarga 16

Sundara-Kāṇḍa · The Book of Beauty · Sarga 16 · 32 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 5.16local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 5.16.1
प्रशस्य तु प्रशस्तव्याम् सीताम् ताम् हरि पुम्गवः ।गुण अभिरामम् रामम् च पुनः चिन्ता परो अभवत् ॥५-१६-१॥
Vālmīki 5.16.2
स मुहूर्तम् इव ध्यात्वा बाष्प पर्याकुलेक्षणः ।सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह ॥५-१६-२॥
Vālmīki 5.16.3
मान्या गुरु विनीतस्य लक्ष्मणस्य गुरु प्रिया ।यदि सीता अपि दुह्ख आर्ता कालो हि दुरतिक्रमः ॥५-१६-३॥
Vālmīki 5.16.4
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।न अत्यर्थम् क्षुभ्यते देवी गन्गा इव जलद आगमे ॥५-१६-४॥
Vālmīki 5.16.5
तुल्य शील वयो वृत्ताम् तुल्य अभिजन लक्षणाम् ।राघवो अर्हति वैदेहीम् तम् च इयम् असित ईक्षणा ॥५-१६-५॥
Vālmīki 5.16.6
ताम् दृष्ट्वा नव हेम आभाम् लोक कान्ताम् इव श्रियम् ।जगाम मनसा रामम् वचनम् च इदम् अब्रवीत् ॥५-१६-६॥
Vālmīki 5.16.7
अस्या हेतोर् विशाल अक्ष्या हतो वाली महा बलः ।रावण प्रतिमो वीर्ये कबन्धः च निपातितः ॥५-१६-७॥
Vālmīki 5.16.8
विराधः च हतः सम्ख्ये राक्षसो भीम विक्रमः ।वने रामेण विक्रम्य महा इन्द्रेण इव शम्बरः ॥५-१६-८॥
Vālmīki 5.16.9
चतुर् दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।निहतानि जन स्थाने शरैर् अग्नि शिख उपमैः ॥५-१६-९॥
Vālmīki 5.16.10
करः च निहतः सम्ख्ये त्रिशिराः च निपातितः ।दूषणः च महा तेजा रामेण विदित आत्मना ॥५-१६-१०॥
Vālmīki 5.16.11
ऐश्वर्यम् वानराणाम् च दुर्लभम् वालि पालितम् ।अस्या निमित्ते सुग्रीवः प्राप्तवान् लोक सत्कृतम् ॥५-१६-११॥
Vālmīki 5.16.12
सागरः च मया क्रान्तः श्रीमान् नद नदी पतिः ।अस्या हेतोर् विशाल अक्ष्याः पुरी च इयम् निरीक्षिता ॥५-१६-१२॥
Vālmīki 5.16.13
यदि रामः समुद्रान्ताम् मेदिनीम् परिवर्तयेत् ।अस्याः कृते जगत् च अपि युक्तम् इति एव मे मतिः ॥५-१६-१३॥
Vālmīki 5.16.14
राज्यम् वा त्रिषु लोकेषु सीता वा जनक आत्मजा ।त्रैलोक्य राज्यम् सकलम् सीताया न आप्नुयात् कलाम् ॥५-१६-१४॥
Vālmīki 5.16.15
इयम् सा धर्म शीलस्य जनकस्य महात्मनः ।सुता मैथिलराजस्य सीता भर्तृदृढ व्रता ॥५-१६-१५॥
Vālmīki 5.16.16
उत्थिता मेदिनीम् भित्त्वा क्षेत्रे हल मुख क्षते ।पद्म रेणु निभैः कीर्णा शुभैः केदार पाम्सुभिः ॥५-१६-१६॥
Vālmīki 5.16.17
विक्रान्तस्य आर्य शीलस्य सम्युगेषु अनिवर्तिनः ।स्नुषा दशरथस्य एषा ज्येष्ठा राज्ञो यशस्विनी ॥५-१६-१७॥
Vālmīki 5.16.18
धर्मज्ञस्य कृतज्ञस्य रामस्य विदित आत्मनः ।इयम् सा दयिता भार्या राक्षसी वशम् आगता ॥५-१६-१८॥
Vālmīki 5.16.19
सर्वान् भोगान् परित्यज्य भर्तृ स्नेह बलात् कृता ।अचिन्तयित्वा दुह्खानि प्रविष्टा निर्जनम् वनम् ॥५-१६-१९॥
Vālmīki 5.16.20
सम्तुष्टा फल मूलेन भर्तृ शुश्रूषणा परा ।या पराम् भजते प्रीतिम् वने अपि भवने यथा ॥५-१६-२०॥
Vālmīki 5.16.21
सा इयम् कनक वर्ण अन्गी नित्यम् सुस्मित भाषिणी ।सहते यातनाम् एताम् अनर्थानाम् अभागिनी ॥५-१६-२१॥
Vālmīki 5.16.22
इमाम् तु शील सम्पन्नाम् द्रष्टुम् इच्चति राघवः ।रावणेन प्रमथिताम् प्रपाम् इव पिपासितः ॥५-१६-२२॥
Vālmīki 5.16.23
अस्या नूनम् पुनर् लाभाद् राघवः प्रीतिम् एष्यति ।राजा राज्य परिभ्रष्टः पुनः प्राप्य इव मेदिनीम् ॥५-१६-२३॥
Vālmīki 5.16.24
काम भोगैः परित्यक्ता हीना बन्धु जनेन च ।धारयति आत्मनो देहम् तत् समागम कान्क्षिणी ॥५-१६-२४॥
Vālmīki 5.16.25
न एषा पश्यति राक्षस्यो न इमान् पुष्प फल द्रुमान् ।एकस्थ हृदया नूनम् रामम् एव अनुपश्यति ॥५-१६-२५॥
Vālmīki 5.16.26
भर्ता नाम परम् नार्या भूषणम् भूषणाद् अपि ।एषा हि रहिता तेन शोभन अर्हा न शोभते ॥५-१६-२६॥
Vālmīki 5.16.27
दुष्करम् कुरुते रामो हीनो यद् अनया प्रभुः ।धारयति आत्मनो देहम् न दुह्खेन अवसीदति ॥५-१६-२७॥
Vālmīki 5.16.28
इमाम् असित केश अन्ताम् शत पत्र निभ ईक्षणाम् ।सुख अर्हाम् दुःखिताम् ज्~आत्वा मम अपि व्यथितम् मनः ॥५-१६-२८॥
Vālmīki 5.16.29
क्षिति क्षमा पुष्कर सम्निभ अक्षी ।या रक्षिता राघव लक्ष्मणाभ्याम् ।सा राक्षसीभिर् विकृत ईक्षणाभिः ।सम्रक्ष्यते सम्प्रति वृक्ष मूले ॥५-१६-२९॥
Vālmīki 5.16.30
हिम हत नलिनी इव नष्ट शोभा ।व्यसन परम्परया निपीड्यमाना ।सह चर रहिता इव चक्र वाकी ।जनक सुता कृपणाम् दशाम् प्रपन्ना ॥५-१६-३०॥
Vālmīki 5.16.31
अस्या हि पुष्प अवनत अग्र शाखाः ।शोकम् दृढम् वै जनयति अशोकाः ।हिम व्यपायेन च शीतरश्मिः ।रभ्युत्थितो न एक सहस्र रश्मिः ॥५-१६-३१॥
Vālmīki 5.16.32
इति एवम् अर्थम् कपिर् अन्ववेक्ष्य ।सीता इयम् इति एव निविष्ट बुद्धिः ।सम्श्रित्य तस्मिन् निषसाद वृक्षे ।बली हरीणाम् ऋषभः तरस्वी ॥५-१६-३२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷