🪷 सुन्दरकाण्ड · Sarga 17
Sundara-Kāṇḍa · The Book of Beauty · Sarga 17 · 32 ślokas
🪷 Devanāgarī Ślokas
ततः कुमुदषण्डाभो निर्मलम् निर्मलोदयः ।प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥५-१७-१॥
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः ।चन्द्रमा रश्मभिः शीतैः सिषेवे पवनात्मजम् ॥५-१७-२॥
स ददर्श ततः सीताम् पूर्णचन्द्रनिभाननाम् ।शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥५-१७-३॥
दिदृक्षमाणो वैदेहीम् हनुमान् मारुतात्मजः ।स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥५-१७-४॥
एकाक्षीमेककर्णाम् च कर्णप्रावरणाम् तथा ।अकर्णाम् शङ्कुकर्णाम् च मस्तकोच्छ्वासनासिकाम् ॥५-१७-५॥
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् ।ध्वस्तकेशीम् तथाकेशीम् केशकम्बलधारिणीम् ॥५-१७-६॥
लम्बकर्णललाटाम् च लम्बोदरपयोधराम् ।लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्याम् लम्बजानुकाम् ॥५-१७-७॥
ह्रस्वाम् दीर्घाम् च कुब्जाम् विकटाम् वामनां तथा ।करालाम् भुग्नवक्त्राम् च पिङ्गाक्षीम् विकृताननाम् ॥५-१७-८॥
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ।कालायसमहाशूलकूटमुद्गधारिणीः ॥५-१७-९॥
वराहमृगशार्दूलमहिषाजशिवामुखीः ।गजोष्ट्र हयपादीश्च निखातशिरसोपराः ॥५-१७-१०॥
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः ।गोकर्णीर्हस्तिकर्णीईश्च हरिकर्णीस्तथापराः ॥५-१७-११॥
अतिनासाश्च तिर्यङ्नासा अनासिकाः ।गजनन्निभनासाश्च ललाटोच्च्वासनासिकाः ॥५-१७-१२॥
हस्तिपादा महापादा गोपादाः पादचूळिकाः ।अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥५-१७-१३॥
अतिमात्रस्यनेत्राश्च दीर्घजिह्वानखास्तथा ।अजामुखीर्हस्तिमुखीर्गोमुखाः सूकरीमुखीः ॥५-१७-१४॥
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥५-१७-१५॥
कराळा धूम्रकेशीश्च राक्षसीर्विकृताननाः ।पिबन्तीः सततं पानं सदा मां ससुराप्रियाः ॥५-१७-१६॥
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ।ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥५-१७-१७॥
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ।तस्याधस्ताच्च ताम् देवीम् राजपुत्रीमनिन्दिताम् ॥५-१७-१८॥
लक्षयामास लक्ष्मीवान् हनुमान् जन्कात्मजाम् ।निष्प्रभाम् षोकसन्तप्ताम् मलसम्कुलमूर्धजाम् ॥५-१७-१९॥
क्षीणपुण्याम् च्युताम् भूमौ ताराम् निपतितामिव ।चारित्रव्यपदेशाड्यां भर्तृदर्शनदुर्गताम् ॥५-१७-२०॥
भूषणैरुत्तमोर्हीनाम् भर्तृवात्सल्यभूषणाम् ।राक्षसाधिपसम्रुद्धाम् बन्धुभिश्च विना कृताम् ॥५-१७-२१॥
वियूथाम् सिम्हसम्रुद्धाम् बद्धाम् गजवधूमिव ।चन्द्ररेखाम् पयोदान्ते शारदाब्रैरिवावृताम् ॥५-१७-२२॥
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ।स ताम् भर्तवशे युक्तामयुक्ताम् राक्षसीवशे ॥५-१७-२३॥
अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।ताभिः परिवृताम् तत्र सग्रहामिव रोहिणीम् ॥५-१७-२४॥
ददर्श हनुमान् देवीम् लतामकुसुमामिव ।सा मलेन च दिग्धाङ्गीवपुषा चाप्यलंकृता ॥५-१७-२५॥
मृणाली पङ्कदिग्धेव विभाति च न भाति च ।मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥५-१७-२६॥
संवृताम् मृगशाबाक्षीं ददर्श हनुमान् कपिः ।ताम् देवीं दीनवदनामदीनां भर्तृतेजसा ॥५-१७-२७॥
रक्षिताम् स्वेन शीलेन सीतामसितलोचनाम् ।ताम् दृष्ट्वा हनुमान् सीताम् मृगशाबनिभेक्षणाम् ।मृगकन्यामिव त्रस्ताम् वीक्षमाणाम् समन्ततः ॥५-१७-२८॥
दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ।सम्घातमिव शोकानाम् दुःखस्योर्मिमिवोथिताम् ॥५-१७-२९॥
ताम् क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ।प्रहर्षमतुलम् लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥५-१७-३०॥
हर्षजानि च सोऽश्रूणि ताम् दृष्ट्वा मदिरेक्षणाम् ।मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवम् ॥५-१७-३१॥
नमस्कृत्वा रामाय लक्ष्मणाय च वीर्यवान् ।सीतादर्शनसम्हृष्टो हनुमान् सम्वृतोऽभवत् ॥५-१७-३२॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 16
- Next: Sundara-Kāṇḍa Sarga 18 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷