🪷 सुन्दरकाण्ड · Sarga 18
Sundara-Kāṇḍa · The Book of Beauty · Sarga 18 · 32 ślokas
🪷 Devanāgarī Ślokas
तथा विप्रेक्षमाणस्य वनम् पुष्पितपादपम् ।विचिन्वतश्च वैदेहीम् किंचिच्चेषा निशाभवत् ॥५-१८-१॥
षडङ्गवेदविदुषाम् क्रतुप्रवरयाजिनाम् ।शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम् ॥५-१८-२॥
अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः ।प्रबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥५-१८-३॥
विबुध्य तु यथाकालम् राक्षसेन्द्रः प्रतापवान् ।स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयात् ॥५-१८-४॥
भृशं नियुक्तस्तस्याम् च मदनेन मदोत्कटः ।न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥५-१८-५॥
स सर्वाभरणैर्युक्तो बिभच्छ्रियमनुत्तमाम् ।तां नगैर्बहुभिर्जुष्टाम् सर्वपुष्पफलोपगैः ॥५-१८-६॥
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।सदामदैश्च विहगैर्विचित्राम् परमाद्भुताम् ॥५-१८-७॥
ईहामृगैश्च विविधैर्जुष्टां डृष्टिमनोहरैः ।वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥५-१८-८॥
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।अशोकवनकामेव प्राविशत्संततद्रुमाम् ॥५-१८-९॥
अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् ।महेन्द्रमिव पौलस्त्यम्ं देवगन्धर्वयोषितः ॥५-१८-१०॥
दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ।वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥५-१८-११॥
काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः ।मण्डलागान् ब्रुसींश्चापि गृह्यान्याः पृष्ठतो ययुः ॥५-१८-१२॥
काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य ब्राजतम् ।दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥५-१८-१३॥
राजहंसप्रतीकाशं चत्रं पूर्णशशिप्रभम् ।सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥५-१८-१४॥
निद्रामदपरीताक्ष्यो रावनस्योत्तमाः स्त्रियः ।अनुजग्मुः पतिं वीरम् घनम् विद्युल्लता इव ॥५-१८-१५॥
व्याविद्धहारकेयूराः समामृदितवर्णकाः ।समागळितकेशान्ताः सस्वेदवदनास्तथा ॥५-१८-१६॥
घोर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ।स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ॥५-१८-१७॥
प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः ।बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥५-१८-१८॥
स च कामपराधीनः पतिस्तासां महाबलः ।सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ॥५-१८-१९॥
ततः काञ्चीनिनादं च नूपुराणाम् च निस्वनम् ।शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥५-१८-२०॥
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥५-१८-२१॥
दीपिकाभिरनेकाभिः समन्तादवभासितम् ।गन्धतैलावसिक्ताभिर्द्रियमाणाभिरग्रतः ॥५-१८-२२॥
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।समक्षमिव कन्दर्पमपविद्धशरासनम् ॥५-१८-२३॥
मथितामृतफेनाभमरजोवस्त्रमुत्तमम् ।सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥५-१८-२४॥
तं पत्रविटपे लीनः अत्रपुष्पघनावृतह् ।समीपमिव संक्रान्तं निध्यातुमुपचक्रमे ॥५-१८-२५॥
अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ।रूपयौवनसंपन्ना रावणस्य वरस्तियः ॥५-१८-२६॥
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।तस्मृगद्विजसम्घष्टं प्रविष्टः प्रमदावनम् ॥५-१८-२७॥
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥५-१८-२८॥
वृतः परमनारीभिस्ताराभिरिव चन्द्रामाः ।तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥५-१८-२९॥
रावणोऽयम् महाबाहुरिति संचिन्त्य वानरः ।अवप्लुतो महातेजा हनुमान्मारुतात्मजः ॥५-१८-३०॥
स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ।पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ॥५-१८-३१॥
स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ।दिदृक्षुरसितापाङ्गमुपावर्तत रावणः ॥५-१८-३२॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 17
- Next: Sundara-Kāṇḍa Sarga 19 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷