🪷 सुन्दरकाण्ड · Sarga 19

Sundara-Kāṇḍa · The Book of Beauty · Sarga 19 · 29 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.19.1
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ।। ५.१९.१।।।। ॥५-१९-१॥
Vālmīki 5.19.2
दुःखार्ता रुदती सीता वेपमाना तपस्विनी ।चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ।। ५.१९.२।।।। ॥५-१९-२॥
Vālmīki 5.19.3
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।निवर्तय मनो मत्तः स्वजने क्रियतां मनः ।। ५.१९.३।।।। ॥५-१९-३॥
Vālmīki 5.19.4
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् ।अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ।कुलं सम्प्राप्तया पुण्यं कुले महति जातया ।।५.१९.४।।।। ॥५-१९-४॥
Vālmīki 5.19.5
एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ।। ५.१९.५।।।। ॥५-१९-५॥
Vālmīki 5.19.6
नाहमौपयिकी भार्या परभार्या सती तव ।साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ।। ५.१९.६।।।। ॥५-१९-६॥
Vālmīki 5.19.7
यथा तव तथान्येषां रक्ष्या दारा निशाचर ।आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ।। ५.१९.७।।।। ॥५-१९-७॥
Vālmīki 5.19.8
अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् ।नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् ।। ५.१९.८।।।। ॥५-१९-८॥
Vālmīki 5.19.9
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः ।। ५.१९.९।।।। ॥५-१९-९॥
Vālmīki 5.19.10
अकृतात्मानमासाद्य राजानमनये रतम् ।समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ।। ५.१९.१०।।।। ॥५-१९-१०॥
Vālmīki 5.19.11
तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला ।अपराधात्तवैकस्य नचिराद्विनशिष्यति ।। ५.१९.११।।।। ॥५-१९-११॥
Vālmīki 5.19.12
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ।अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ।। ५.१९.१२।।।। ॥५-१९-१२॥
Vālmīki 5.19.13
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ।दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ।। ५.१९.१३।।।। ॥५-१९-१३॥
Vālmīki 5.19.14
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।अनन्या राघवेणाहं भास्करेण प्रभा यथा ।। ५.१९.१४।।।। ॥५-१९-१४॥
Vālmīki 5.19.15
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् ।। ५.१९.१५।।।। ॥५-१९-१५॥
Vālmīki 5.19.16
अहमौपयिकी भार्या तस्यैव वसुधापतेः ।व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः ।। ५.१९.१६।।।। ॥५-१९-१६॥
Vālmīki 5.19.17
साधु रावण रामेण मां समानय दुःखिताम् ।वने वाशितया सार्धं करेण्वेव गजाधिपम् ।। ५.१९.१७।।।। ॥५-१९-१७॥
Vālmīki 5.19.18
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ।। ५.१९.१८।।।। ॥५-१९-१८॥
Vālmīki 5.19.19
वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् ।त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः ।। ५.१९.१९।।।। ॥५-१९-१९॥
Vālmīki 5.19.20
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ।। ५.१९.२०।।।। ॥५-१९-२०॥
Vālmīki 5.19.21
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ।इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ।। ५.१९.२१।।।। ॥५-१९-२१॥
Vālmīki 5.19.22
रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ।असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ।। ५.१९.२२।।।। ॥५-१९-२२॥
Vālmīki 5.19.23
राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् ।उद्धरिष्यति वेगेन वैनतेय इवोरगान् ।। ५.१९.२३।।।। ॥५-१९-२३॥
Vālmīki 5.19.24
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ।असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ।। ५.१९.२४।।।। ॥५-१९-२४॥
Vālmīki 5.19.25
जनस्थाने हतस्थाने निहते रक्षसां बले ।अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ।। ५.१९.२५।।।। ॥५-१९-२५॥
Vālmīki 5.19.26
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ।गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ।। ५.१९.२६।।।। ॥५-१९-२६॥
Vālmīki 5.19.27
न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ।शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ।। ५.१९.२७।।।। ॥५-१९-२७॥
Vālmīki 5.19.28
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ।वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ।। ५.१९.२८।।।। ॥५-१९-२८॥
Vālmīki 5.19.29
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥५-१९-२९॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷