🪷 सुन्दरकाण्ड · Sarga 20

Sundara-Kāṇḍa · The Book of Beauty · Sarga 20 · 42 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.20.1
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ।। ५.२०.१।।।। ॥५-२०-१॥
Vālmīki 5.20.2
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ।। ५.२०.२।।।। ॥५-२०-२॥
Vālmīki 5.20.3
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।द्रवतो मार्गमासाद्य हयानिव सुसारथिः ।। ५.२०.३।।।। ॥५-२०-३॥
Vālmīki 5.20.4
वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ।जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ।। ५.२०.४।।।। ॥५-२०-४॥
Vālmīki 5.20.5
एतस्मात्कारणान्न तां घतयामि वरानने ।वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ।। ५.२०.५।।।। ॥५-२०-५॥
Vālmīki 5.20.6
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् ।तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ।। ५.२०.६।।।। ॥५-२०-६॥
Vālmīki 5.20.7
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ।। ५.२०.७।।।। ॥५-२०-७॥
Vālmīki 5.20.8
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।ततः शयनमारोह मम त्वं वरवर्णिनि ।। ५.२०.८।।।। ॥५-२०-८॥
Vālmīki 5.20.9
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ।मम त्वां प्रातराशार्थमारभन्ते महानसे ।। ५.२०.९।।।। ॥५-२०-९॥
Vālmīki 5.20.10
तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ।। ५.२०.१०।।।। ॥५-२०-१०॥
Vālmīki 5.20.11
ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः ।सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ।। ५.२०.११।।।। ॥५-२०-११॥
Vālmīki 5.20.12
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ।। ५.२०.१२।।।। ॥५-२०-१२॥
Vālmīki 5.20.13
नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः ।निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ।। ५.२०.१३।।।। ॥५-२०-१३॥
Vālmīki 5.20.14
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ।। ५.२०.१४।।।। ॥५-२०-१४॥
Vālmīki 5.20.15
राक्षसाधम रामस्य भार्याममिततेजसः ।उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ।। ५.२०.१५।।।। ॥५-२०-१५॥
Vālmīki 5.20.16
यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने ।तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ।। ५.२०.१६।।।। ॥५-२०-१६॥
Vālmīki 5.20.17
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।चक्षुषो विषयं तस्य न तावदुपगच्छसि ।। ५.२०.१७।।।। ॥५-२०-१७॥
Vālmīki 5.20.18
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः ।। ५.२०.१८।।।। ॥५-२०-१८॥
Vālmīki 5.20.19
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते ।। ५.२०.१९।।।। ॥५-२०-१९॥
Vālmīki 5.20.20
असन्देशात्तु रामस्य तपसश्चानुपालनात् ।न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ।। ५.२०.२०।।।। ॥५-२०-२०॥
Vālmīki 5.20.21
नापहर्तुमहं शक्या तस्य रामस्य धीमतः ।विधिस्तव वधार्थाय विहितो नात्र संशयः ।। ५.२०.२१।।।। ॥५-२०-२१॥
Vālmīki 5.20.22
शूरेण धनदभ्राता बलैः समुदितेन च ।अपोह्य रामं कस्माद्धि दारचाउर्य.म् त्वया क्र्तम् ।। ५.२०.२२।।।। ॥५-२०-२२॥
Vālmīki 5.20.23
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ।। ५.२०.२३।।।। ॥५-२०-२३॥
Vālmīki 5.20.24
नीलजीमूतसङ्काशो महाभुजशिरोधरः ।सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः ।। ५.२०.२४।।।। ॥५-२०-२४॥
Vālmīki 5.20.25
चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः ।रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ।। ५.२०.२५।।।। ॥५-२०-२५॥
Vālmīki 5.20.26
श्रोणीसूत्रेण महता मेककेन सुसंवृतः ।अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः ।। ५.२०.२६।।।। ॥५-२०-२६॥
Vālmīki 5.20.27
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ।रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ।। ५.२०.२७।।।। ॥५-२०-२७॥
Vālmīki 5.20.28
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ।। ५.२०.२८।।।। ॥५-२०-२८॥
Vālmīki 5.20.29
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते ।नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ।। ५.२०.२९।।।। ॥५-२०-२९॥
Vālmīki 5.20.30
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ।। ५.२०.३०।।।। ॥५-२०-३०॥
Vālmīki 5.20.31
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ।। ५.२०.३१।।।। ॥५-२०-३१॥
Vālmīki 5.20.32
हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् ।एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ।। ५.२०.३२।।।। ॥५-२०-३२॥
Vālmīki 5.20.33
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ।अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।। ५.२०.३३।।।। ॥५-२०-३३॥
Vālmīki 5.20.34
यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ।। ५.२०.३४।।।। ॥५-२०-३४॥
Vālmīki 5.20.35
प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।आवर्तयत वैदेहीं दण्डस्योद्यमनेन च ।। ५.२०.३५।।।। ॥५-२०-३५॥
Vālmīki 5.20.36
इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ।काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ।। ५.२०.३६।।।। ॥५-२०-३६॥
Vālmīki 5.20.37
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ।परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ।। ५.२०.३७।।।। ॥५-२०-३७॥
Vālmīki 5.20.38
मया क्रीड महाराजसीतया किं तवानया ।अकामां कामयानस्य शरीरमुपतप्यते ।इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ।। ५.२०.३८।।।। ॥५-२०-३८॥
Vālmīki 5.20.39
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ।। ५.२०.३९।।।। ॥५-२०-३९॥
Vālmīki 5.20.40
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः ।परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ।। ५.२०.४०।।।। ॥५-२०-४०॥
Vālmīki 5.20.41
स मैथिलीं धर्मपरामवस्थितांप्रवेपमानां परिभर्त्स्य रावणः ।।। ॥५-२०-४१॥
Vālmīki 5.20.42
विहाय सीतां मदनेन मोहितःस्वमेव वेश्म प्रविवेश भास्वरम् ॥५-२०-४२॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷