🪷 सुन्दरकाण्ड · Sarga 21

Sundara-Kāṇḍa · The Book of Beauty · Sarga 21 · 19 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.21.1
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ।। ५.२१.१।।।। ॥५-२१-१॥
Vālmīki 5.21.2
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते ।राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ।। ५.२१.२।।।। ॥५-२१-२॥
Vālmīki 5.21.3
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः ।परं परुषया वाचा वैदेहीम् इदमब्रुवन् ।। ५.२१.३।।।। ॥५-२१-३॥
Vālmīki 5.21.4
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः ।दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ।। ५.२१.४।।।। ॥५-२१-४॥
Vālmīki 5.21.5
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् ।आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ।। ५.२१.५।।।। ॥५-२१-५॥
Vālmīki 5.21.6
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ।मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ।। ५.२१.६।।।। ॥५-२१-६॥
Vālmīki 5.21.7
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ।नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ।। ५.२१.७।।।। ॥५-२१-७॥
Vālmīki 5.21.8
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ।। ५.२१.८।।।। ॥५-२१-८॥
Vālmīki 5.21.9
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ।विवृत्य नयने कोपान्मार्जारसदृशेक्षणा ।। ५.२१.९।।।। ॥५-२१-९॥
Vālmīki 5.21.10
येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।। ५.२१.१०।।।। ॥५-२१-१०॥
Vālmīki 5.21.11
वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः ।बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे ।। ५.२१.११।।।। ॥५-२१-११॥
Vālmīki 5.21.12
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ।सर्वासां च महाभागां त्वामुपैष्यति रावणः ।। ५.२१.१२।।।। ॥५-२१-१२॥
Vālmīki 5.21.13
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ।अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ।। ५.२१.१३।।।। ॥५-२१-१३॥
Vālmīki 5.21.14
असकृद्देवता युद्धे नागगन्धर्वदानवाः ।निर्जिताः समरे येन स ते पार्श्वमुपागतः ।। ५.२१.१४।।।। ॥५-२१-१४॥
Vālmīki 5.21.15
तस्य सर्वसमृद्धस्या रावणस्य महात्मनः ।किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ।। ५.२१.१५।।।। ॥५-२१-१५॥
Vālmīki 5.21.16
यस्य सूर्यो न तपति भीतो यस्य च मारुतः ।न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ।। ५.२१.१६।।।। ॥५-२१-१६॥
Vālmīki 5.21.17
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ।शैलाश्च सुभ्रु पानीयं जलदाश् च यदेच्छति ।। ५.२१.१७।।।। ॥५-२१-१७॥
Vālmīki 5.21.18
तस्य नैरृतराजस्य राजराजस्य भामिनि ।किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ।। ५.२१.१८।।।। ॥५-२१-१८॥
Vālmīki 5.21.19
साधु ते तत्त्वतो देवि कथितं साधु भामिनि ।गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥५-२१-१९॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷