🪷 सुन्दरकाण्ड · Sarga 8

Sundara-Kāṇḍa · The Book of Beauty · Sarga 8 · 7 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.8.1
स तस्य मध्ये भवनस्य सम्स्थितम् ।महद्विमानम् मणिवज्रचित्रितम् ।प्रतप्तजाम्बूनदजालकृत्रिमम् ।ददर्श वीरः पवनात्मजः कपिः ॥५-८-१॥
Vālmīki 5.8.2
तदप्रमेयाप्रतिकारकृत्रिमम् ।कृतम् स्वयम् साध्विति विश्वकर्मणाः ।दिवम् गतम् वायुपथप्रतिष्ठितम् ।व्यराजतादित्यपथस्य लक्ष्मिवत् ॥५-८-२॥
Vālmīki 5.8.3
न तत्र किम्चिन्न कृतम् प्रयत्नतो ।न तत्र किम्चिन्न महर्हरत्नवत् ।न ते विशेषा नियताः सुरेष्वपि ।न तत्र किम्चिन्न महाविशेषवत् ॥५-८-३॥
Vālmīki 5.8.4
तपह्समाधानपराक्रमार्जितम् ।मनःसमाधानविचारचारिणम् ।अनेकसम्स्थानविषेषनिर्मितम् ।ततस्ततस्तुल्यविशेषदर्शनम् ॥५-८-४॥
Vālmīki 5.8.5
विशेषमालम्ब्य विशेषसम्स्थितम् ।विचित्रकूटम् बहुकूटमण्डितम् ।मनोऽभिरामम् शरद्न्दुनिर्मलम् ।विचित्रकूटम् शिखरम् गिरेर्यथा ॥५-८-५॥
Vālmīki 5.8.6
वहन्ति यम् कुण्डशोभितानना ।महाशना व्योमचरा निशाचराः ।विवृत्तविध्वस्तविशाललोचना ।महाजवा भूतगणाः सहस्रशः ॥५-८-६॥
Vālmīki 5.8.7
वसन्तपुष्पोत्करचारुदर्शनम् ।वसन्तमासदपि कान्तदर्शनम् ।स पुष्पकम् तत्र विमानमुत्तमम् ।ददर्श तद्वानरवीरसत्तमः ॥५-८-७॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷