🪷 सुन्दरकाण्ड · Sarga 7

Sundara-Kāṇḍa · The Book of Beauty · Sarga 7 · 17 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 5.7local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 5.7.1
स वेश्म जालम् बलवान् ददर्श ।व्यासक्त वैदूर्य सुवर्ण जालम् ।यथा महत् प्राव्Rषि मेघ जालम् ।विद्युत् पिनद्धम् सविहम्ग जालम् ॥५-७-१॥
Vālmīki 5.7.2
निवेशनानाम् विविधाः च शालाः ।प्रधान शन्ख आयुध चाप शालाः ।मनो हराः च अपि पुनर् विशाला ।ददर्श वेश्म अद्रिषु चन्द्र शालाः ॥५-७-२॥
Vālmīki 5.7.3
गृहाणि नाना वसु राजितानि ।देव असुरैः च अपि सुपूजितानि ।सर्वैः च दोषैः परिवर्जितानि ।कपिर् ददर्श स्व बल अर्जितानि ॥५-७-३॥
Vālmīki 5.7.4
तानि प्रयत्न अभिसमाहितानि ।मयेन साक्षाद् इव निर्मितानि ।मही तले सर्व गुण उत्तराणि ।ददर्श लन्का अधिपतेर् ग्Rहाणि ॥५-७-४॥
Vālmīki 5.7.5
ततो ददर्श उच्च्रित मेघ रूपम् ।मनो हरम् कान्चन चारु रूपम् ।रक्षो अधिपस्य आत्म बल अनुरूपम् ।गृह उत्तमम् हि अप्रतिरूप रूपम् ॥५-७-५॥
Vālmīki 5.7.6
मही तले स्वर्गम् इव प्रकीर्णम् ।श्रिया ज्वलन्तम् बहु रत्न कीर्णम् ।नाना तरूणाम् कुसुम अवकीर्णम् ।गिरेर् इव अग्रम् रजसा अवकीर्णम् ॥५-७-६॥
Vālmīki 5.7.7
नारी प्रवेकैर् इव दीप्यमानम् ।तडिद्भिर् अम्भोदवद् अर्च्यमानम् ।हम्स प्रवेकैर् इव वाह्यमानम् ।श्रिया युतम् खे सुक्Rताम् विमानम् ॥५-७-७॥
Vālmīki 5.7.8
यथा नग अग्रम् बहु धातु चित्रम् ।यथा नभः च ग्रह चन्द्र चित्रम् ।ददर्श युक्ती कृत मेघ चित्रम् ।विमान रत्नम् बहु रत्न चित्रम् ॥५-७-८॥
Vālmīki 5.7.9
मही कृता पर्वत राजि पूर्णा ।शैलाः कृता वृक्ष वितान पूर्णाः ।वृक्षाः क्Rताः पुष्प वितान पूर्णाः ।पुष्पम् क्Rतम् केसर पत्र पूर्णम् ॥५-७-९॥
Vālmīki 5.7.10
कृतानि वेश्मानि च पाण्डुराणि ।तथा सुपुष्पा अपि पुष्करिण्यः ।पुनः च पद्मानि सकेसराणि ।धन्यानि चित्राणि तथा वनानि ॥५-७-१०॥
Vālmīki 5.7.11
पुष्प आह्वयम् नाम विराजमानम् ।रत्न प्रभाभिः च विवर्धमानम् ।वेश्म उत्तमानाम् अपि च उच्च मानम् ।महा कपिः तत्र महा विमानम् ॥५-७-११॥
Vālmīki 5.7.12
कृताः च वैदूर्यमया विहम्गा ।रूप्य प्रवालैः च तथा विहम्गाः ।चित्राः च नाना वसुभिर् भुजम्गा ।जात्या अनुरूपाः तुरगाः शुभ अन्गाः ॥५-७-१२॥
Vālmīki 5.7.13
प्रवाल जाम्बूनद पुष्प पक्षाः ।सलीलम् आवर्जित जिह्म पक्षाः ।कामस्य साक्षाद् इव भान्ति पक्षाः ।कृता विहम्गाः सुमुखाः सुपक्षाः ॥५-७-१३॥
Vālmīki 5.7.14
नियुज्यमानाः च गजाः सुहस्ताः ।सकेसराः च उत्पल पत्र हस्ताः ।बभूव देवी च कृता सुहस्ता ।लक्ष्मीः तथा पद्मिनि पद्म हस्ता ॥५-७-१४॥
Vālmīki 5.7.15
इति इव तद् ग्Rहम् अभिगम्य शोभनम् ।सविस्मयो नगम् इव चारु शोभनम् ।पुनः च तत् परम सुगन्धि सुन्दरम् ।हिम अत्यये नगम् इव चारु कन्दरम् ॥५-७-१५॥
Vālmīki 5.7.16
ततः स ताम् कपिर् अभिपत्य पूजिताम् ।चरन् पुरीम् दश मुख बाहु पालिताम् ।अदृश्य ताम् जनक सुताम् सुपूजिताम् ।सुदुह्खिताम् पति गुण वेग निर्जिताम् ॥५-७-१६॥
Vālmīki 5.7.17
ततः तदा बहु विध भावित आत्मनः ।कृत आत्मनो जनक सुताम् सुवर्त्मनः ।अपश्यतो अभवद् अतिदुह्खितम् मनः ।सुचक्षुषः प्रविचरतो महात्मनः ॥५-७-१७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷