🪷 सुन्दरकाण्ड · Sarga 6
Sundara-Kāṇḍa · The Book of Beauty · Sarga 6 · 45 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.6local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स निकामम् विमानेषु विषण्णः काम रूपधृत् ।विचचार पुनर्लङ्काम् लाघवेन समन्वितः ॥५-६-१॥
आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ।प्राकारेण अर्क वर्णेन भास्वरेण अभिसम्व्Rतम् ॥५-६-२॥
रक्षितम् राक्षसैर् भीमैः सिम्हैर् इव महद् वनम् ।समीक्षमाणो भवनम् चकाशे कपि कुन्जरः ॥५-६-३॥
रूप्य कोप हितैः चित्रैः तोरणैर् हेम भूषितैः ।विचित्राभिः च कक्ष्याभिर् द्वारैः च रुचिरैर् व्Rतम् ॥५-६-४॥
गज आस्थितैर् महा मात्रैः शूरैः च विगत श्रमैः ।उपस्थितम् असम्हार्यैर् हयैः स्यन्दन यायिभिः ॥५-६-५॥
सिम्ह व्याघ्र तनु त्राणैर् दान्त कान्चन राजतैः ।घोषवद्भिर् विचित्रैः च सदा विचरितम् रथैः ॥५-६-६॥
बहु रत्न समाकीर्णम् पर अर्ध्य आसन भाजनम् ।महा रथ समावासम् महा रथ महा आसनम् ॥५-६-७॥
दृश्यैः च परम उदारैः तैः तैः च मृग पक्षिभिः ।विविधैर् बहु साहस्रैः परिपूर्णम् समन्ततः ॥५-६-८॥
विनीतैर् अन्त पालैः च रक्षोभिः च सुरक्षितम् ।मुख्याभिः च वर स्त्रीभिः परिपूर्णम् समन्ततः ॥५-६-९॥
मुदित प्रमदा रत्नम् राक्षस इन्द्र निवेशनम् ।वर आभरण निर्ह्रादैः समुद्र स्वन निह्स्वनम् ॥५-६-१०॥
तद् राज गुण सम्पन्नम् मुख्यैः च वर चन्दनैः ।भेरी म्Rदन्ग अभिरुतम् शन्ख घोष विनादितम् ॥५-६-११॥
भेरीमृदङ्गाभिरुतम् शङ्खघोषनिनादितम् ।नित्य अर्चितम् पर्व हुतम् पूजितम् राक्षसैः सदा ॥५-६-१२॥
समुद्रम् इव गम्भीरम् समुद्रम् इव निह्स्वनम् ।महात्मानो महद् वेश्म महा रत्न परिच्चदम् ॥५-६-१३॥
महा जन समाकीर्णम् ददर्श स महा कपिः ।विराजमानम् वपुषा गज अश्व रथ सम्कुलम् ॥५-६-१४॥
लन्का आभरणम् इति एव सो अमन्यत महा कपिः ।चचार हनुमाम्स्तत्र रावणस्य समीपतः ॥५-६-१५॥
गृहाद् गृहम् राक्षसानाम् उद्यानानि च वानरः ।वीक्षमाणो हि असम्त्रस्तः प्रासादामः च चचार सः ॥५-६-१६॥
अवप्लुत्य महा वेगः प्रहस्तस्य निवेशनम् ।ततो अन्यत् पुप्लुवे वेश्म महा पार्श्वस्य वीर्यवान् ॥५-६-१७॥
अथ मेघ प्रतीकाशम् कुम्भ कर्ण निवेशनम् ।विभीषणस्य च तथा पुप्लुवे स महा कपिः ॥५-६-१८॥
महा उदरस्य च तथा विरूप अक्षस्य चैव हि ।विद्युज् जिह्वस्य भवनम् विद्युन् मालेः तथैव च ॥५-६-१९॥
वज्र दम्ष्ट्रस्य च तथा पुप्लुवे स महा कपिः ।शुकस्य च महा वेगः सारणस्य च धीमतः ।तथा च इन्द्रजितो वेश्म जगाम हरि यूथपः ॥५-६-२०॥
जम्बु मालेः सुमालेः च जगाम हरि यूथपः ॥५-६-२१॥
रश्मि केतोः च भवनम् सूर्य शत्रोः तथैव च ।वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥५-६-२२॥
धूम्र अक्षस्य च सम्पातेर् भवनम् मारुत आत्मजः ।विद्युद् रूपस्य भीमस्य घनस्य विघनस्य च ॥५-६-२३॥
शुक नाभस्य वक्रस्य शठस्य विकटस्य च ।ह्रस्व कर्णस्य दम्ष्ट्रस्य रोमशस्य च रक्षसः ॥५-६-२४॥
युद्ध उन्मत्तस्य मत्तस्य ध्वज ग्रीवस्य नादिनः ।विद्युज् जिह्व इन्द्र जिह्वानाम् तथा हस्ति मुखस्य च ॥५-६-२५॥
करालस्य पिशाचस्य शोणित अक्षस्य चैव हि ।क्रममाणः क्रमेण एव हनूमान् मारुत आत्मजः ॥५-६-२६॥
तेषु तेषु महा अर्हेषु भवनेषु महा यशाः ।तेषाम् R^द्धिमताम् ऋद्धिम् ददर्श स महा कपिः ॥५-६-२७॥
सर्वेषाम् समतिक्रम्य भवनानि समन्ततः ।आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ॥५-६-२८॥
रावणस्य उपशायिन्यो ददर्श हरि सत्तमः ।विचरन् हरि शार्दूलो राक्षसीर् विकृत ईक्षणाः ॥५-६-२९॥
शूल मुद्गल हस्ताः च शक्तो तोमर धारिणीः ।ददर्श विविधान् गुल्मामः तस्य रक्षः पतेर् गृहे ।राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ॥५-६-३०॥
रक्तान् श्वेतान् सितामः चैव हरीमः चैव महा जवान् ॥५-६-३१॥
कुलीनान् रूप सम्पन्नान् गजान् पर गज आरुजान् ।निष्ठितान् गज शिखायाम् ऐरावत समान् युधि ॥५-६-३२॥
निहन्त्RRन् पर सैन्यानाम् गृहे तस्मिन् ददर्श सः ।क्षरतः च यथा मेघान् स्रवतः च यथा गिरीन् ॥५-६-३३॥
मेघ स्तनित निर्घोषान् दुर्धर्षान् समरे परैः ।सहस्रम् वाहिनीः तत्र जाम्बूनद परिष्कृताः ॥५-६-३४॥
हेम जालैर् अविच्चिन्नाः तरुण आदित्य सम्निभाः ।ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ॥५-६-३५॥
शिबिका विविध आकाराः स कपिर् मारुत आत्मजः ।लता गृहाणि चित्राणि चित्र शाला गृहाणि च ॥५-६-३६॥
क्रीडा गृहाणि च अन्यानि दारु पर्वतकान् अपि ।कामस्य गृहकम् रम्यम् दिवा गृहकम् एव च ॥५-६-३७॥
ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ।स मन्दर तल प्रख्यम् मयूर स्थान सम्कुलम् ॥५-६-३८॥
ध्वज यष्टिभिर् आकीर्णम् ददर्श भवन उत्तमम् ।अनन्त रत्न निचयम् निधि जालम् समन्ततः ॥५-६-३९॥
धीर निष्ठित कर्म अन्तम् गृहम् भूत पतेर् इव ।अर्चिर्भिः च अपि रत्नानाम् तेजसा रावणस्य च ॥५-६-४०॥
विरराज अथ तद् वेश्म रश्मिमान् इव रश्मिभिः ।जाम्बू नदमयानि एव शयनानि आसनानि च ॥५-६-४१॥
भाजनानि च शुभ्राणि ददर्श हरि यूथपः ।मध्व् आसव कृत क्लेदम् मणि भाजन सम्कुलम् ॥५-६-४२॥
मनो रमम् असम्बाधम् कुबेर भवनम् यथा ।नूपुराणाम् च घोषेण कान्चीनाम् निनदेन च ॥५-६-४३॥
मृदन्ग तल घोषैः च घोषवद्भिर् विनादितम् ।प्रासाद सम्घात युतम् स्त्री रत्न शत सम्कुलम् ॥५-६-४४॥
सुव्यूढ कक्ष्यम् हनुमान् प्रविवेश महा गृहम् ।
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 5
- Next: Sundara-Kāṇḍa Sarga 7 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷