🪷 सुन्दरकाण्ड · Sarga 5
Sundara-Kāṇḍa · The Book of Beauty · Sarga 5 · 27 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.5local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः स मध्यंगतमंशुमन्तं ।ज्योत्स्नावितानम् महदुद्वमन्तम् ।ददर्श धीमान् दिवि भानुमन्तम् ।गोष्ठे वृषं मत्तमिव भ्रामन्तम् ॥५-५-१॥
लोकस्य पापानि विनाशयन्तम् ।महोदधिं चापि समेधयन्तम् ।भूतानि सर्वाणि विराजयन्तम् ।ददर्श शीताम्शुमथाभियान्तम् ॥५-५-२॥
या भाति लक्ष्मीर्भुवि मन्दरस्था ।तथा प्रदोषेषु च सागरस्था ।तथैव तोयेषु च पुष्करस्था ।रराज सा चारुनिशाकरस्था ॥५-५-३॥
हम्सो यथा राजतपञ्जरसथः ।सिम्हो यथा मन्दरकन्दरस्थः ।वीरो यथा गर्वितकुञ्जरस्थ ।श्चन्द्रो विबभ्राज तथामभरस्थः ॥५-५-४॥
स्थितह् ककुद्मानिव तीक्ष्णशृङ्गो ।महाचलः श्वेत इवोच्चशृङ्गः ।हस्तीव जाम्बूनदबद्धश्^इङ्गो ।रराज चन्द्रह् परिपूर्णशृङ्गः ॥५-५-५॥
विनष्टशीताम्बुतुषारपङ्को ।महाग्रहग्राहविनष्टपङ्कः ।प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को ।रराज चन्द्रो भगवान् शशाङ्कः ॥५-५-६॥
शीलातलम् प्राप्य यथा मृगेन्द्रो ।महारणम् प्राप्य यथा गजेन्द्रह् ।राज्यम् समासाद्य यथा नरेन्द्र ।स्तथाप्रकाशो विरराज चन्द्रः ॥५-५-७॥
प्रकाशचन्द्रोदयनष्टदोषः ।प्रवृत्तरक्षः पिशिताशदोषः ।रामाभिरामेरितचित्तदोषः ।स्वर्गप्रकाशो भगवान् प्रदोषः ॥५-५-८॥
तन्त्रीस्वनाह् कर्णसुखाः प्रवृत्ताः ।स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।नक्तम्चराश्चापि तथा प्रवृत्ता ।विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥५-५-९॥
मत्तप्रमत्तानि समाकुलानि ।तथाश्वभद्रासनसम्कुलानि ।वीरः श्रिया चापि समाकुलानि ।ददर्श धीमान् स कपिः कुलानि ॥५-५-१०॥
परस्परं चाधिकमाक्षिपन्ति ।भुआम्श्च पीनानधिनिक्षिपन्ति ।मत्तप्रलापानधिकम् क्षिपन्ति ।मत्तानि चान्योन्यमधिक्षिपन्ति ॥५-५-११॥
रक्षाम्सि वक्षाम्सि च विक्षिपन्ति ।गात्राणि कान्तासु च विक्षिपन्ति ।रूपाअणि चित्राणि च विक्षिपन्ति ।दृढानि चापानि च विक्षिपन्ति ॥५-५-१२॥
ददर्श कान्ताश्च समालभन्त्य ।स्तथा परास्तत्र पुनः स्वपन्त्यः ।सुरूपवक्त्राश्च तथा हसन्त्यः ।क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः ॥५-५-१३॥
महागजैश्चापि तथा नदद्भिः ।सुपूजितैश्चापि तथा सुसद्भिः ।रराज वीरैश्च विनिःश्वसद्भि ।र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥५-५-१४॥
बुद्धिप्रधानान् रुचिराभिधानान् ।सम्श्रद्दधानान् जगतः प्रधानान् ।नानाविधानान् रुचिराभिधानान् ।ददर्श तस्याम् पुरि यातुधानान् ॥५-५-१५॥
ननन्द दृष्ट्वा स च तान् सुरूपा ।न्नानागुणानात्मगुणानुरूपान् ।विद्योतमानान्स तदानुरूपान् ।ददर्श काम्श्चिच्च पुनर्विरूपान् ॥५-५-१६॥
ततो वरार्हः सुविशुद्धभावा ।स्तेषाम् स्त्रियस्तत्र महानुभावाह् ।प्रियेषु पानेषु च सक्तभावा ।ददर्श ताराइव सुप्रभावाः ॥५-५-१७॥
श्रिया ज्वलन्तीस्त्रपयोगूढा ।निशीथकाले रमणोपगूढाः ।ददर्श काश्चित्प्रमदोपगूढा ।यथा विहङ्गाः कुसुमोपगूढाः ॥५-५-१८॥
अन्याः पुनर्हर्म्यतलोपविष्टा ।स्तत्र प्रियाङ्केषु सुखोपविष्टाः ।भर्तुः प्रिया धर्मपरा निविष्टा ।ददर्श धीमान् मदनाभिविष्टाः ॥५-५-१९॥
अप्रावृताः काञ्चनराजिवर्णाः ।काश्चित्परार्थ्यास्तपनीयवर्णाः ।पुनश्च काश्चिच्छशलक्ष्मवर्णाः ।कान्तप्रहीणारुचिराङ्गवर्णाः ॥५-५-२०॥
ततह् प्रियान् प्राप्य मनोभिरामान् ।सुप्रीतियुक्ताः सुमनोभिरामाः ।गृहेषु हृष्टाः परमाभिरामाः ।हरिप्रवीरः स ददर्श रामाः ॥५-५-२१॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला ।वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।विभूषाणानाम् च ददर्श मालाः ।शतह्रदानामिव चारुमालाः ॥५-५-२२॥
न त्वेव सीताम् परमाभिजाताम् ।पथि स्थिते राजकुले प्रजाताम् ।लताम् प्रपुल्लामिव साधु जाताम् ।ददर्श तन्वीम् मनसाभिजाताम् ॥५-५-२३॥
सनातने वर्त्मानि सम्निविष्टाम् ।रामेक्षणां तां मदनाभिविष्टाम् ।भर्तुर्मनः श्रीमदनुप्रविष्टाम् ।स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥५-५-२४॥
उष्णार्दिताम् सानुसृतास्रकण्ठीम् ।पुरा वरार्होत्तमनिष्ककण्ठीम् ।सुजातपक्ष्मामभिरक्तकण्ठीम् ।वनेऽप्रनृत्तामिव नीलकण्ठीम् ॥५-५-२५॥
अव्यक्तरेखामिव चन्द्ररेखां ।पाम्सुप्रदिग्धामिव हेमरेखाम् ।क्षतप्ररूढामिव बाणरेखां ।वायुप्रभिन्नामिव मेघरेक्षाम् ॥५-५-२६॥
सीतामपश्यन् मनुजेश्वरस्य ।रामस्य पत्नीम् वदताम् वरस्य ।बभूव दुःखाभिहतश्चिरस्य ।प्लवङ्गमो मन्द इवाचिरस्य ॥५-५-२७॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 4
- Next: Sundara-Kāṇḍa Sarga 6 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷