🪷 सुन्दरकाण्ड · Sarga 4

Sundara-Kāṇḍa · The Book of Beauty · Sarga 4 · 30 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 5.4local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 5.4.1
स निर्जत्य पुरीम् लण्का श्रेष्ठाम् ताम् कामरूपिणीम् ।विक्रमेण महातेजा हनुमान् कपिसत्तमः ॥५-४-१॥
Vālmīki 5.4.2
अद्वारेण मःआतेजा हौमान् कपिसत्तमः ।प्रविश्य नगरीम् लङ्काम् कपिराजहितम्करः ॥५-४-२॥
Vālmīki 5.4.3
चक्रेणाऽथ पदम् सव्यम् शत्रूणाम् स तु मूर्धनि ।प्रविष्टः सत्त्वसंपन्नो विशायाम् मारुतात्मजः ॥५-४-३॥
Vālmīki 5.4.4
स महापथमास्थाय मुक्तापुष्पविराजितम् ।ततस्तु ताम् पुरीम् लङ्काम् रम्यामभिययौ कपिः ॥५-४-४॥
Vālmīki 5.4.5
हसित उद्घुष्ट निनदैः तूर्य घोष पुरः सरैः ।वज्र अन्कुश निकाशैः च वज्र जाल विभूषितैः ॥५-४-५॥
Vālmīki 5.4.6
गृह मेधैः पुरी रम्या बभासे द्यौः इव अम्बुदैः ।प्रजज्वाल तदा लन्का रक्षः गण गृहैः शुभैः ॥५-४-६॥
Vālmīki 5.4.7
सित अभ्र सदृशैः चित्रैः पद्म स्वस्तिक सम्स्थितैः ।वर्धमान गृहैः च अपि सर्वतः सुविभाषितैः ॥५-४-७॥
Vālmīki 5.4.8
ताम् चित्र माल्य आभरणाम् कपि राज हितम् करः ।राघव अर्थम् चरन् श्रीमान् ददर्श च ननन्द च ॥५-४-८॥
Vālmīki 5.4.9
भवनाद्भवनं गच्छ्न् ददर्श पवनात्मजः ।विविधाकृतिरूपाणि भवनानि ततस्ततः ॥५-४-९॥
Vālmīki 5.4.10
शुश्राव मधुरम् गीतम् त्रि स्थान स्वर भूषितम् ।स्त्रीणाम् मद समृद्धानाम् दिवि च अप्सरसाम् इव ॥५-४-१०॥
Vālmīki 5.4.11
शुश्राव कान्ची निनदम् नूपुराणाम् च निह्स्वनम् ।सोपान निनदामः चैव भवनेषु महात्मनम् ॥५-४-११॥
Vālmīki 5.4.12
आस्फोटित निनादामः च क्ष्वेडितामः च ततः ततः ।शुश्राव जपताम् तत्र मन्त्रन् रक्षोगृहेषु वै ॥५-४-१२॥
Vālmīki 5.4.13
स्वाध्याय निरतामः चैव यातु धानान् ददर्श सः ।रावण स्तव सम्युक्तान् गर्जतः राक्षसान् अपि ॥५-४-१३॥
Vālmīki 5.4.14
राज मार्गम् समावृत्य स्थितम् रक्षः बलम् महत् ।ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् ॥५-४-१४॥
Vālmīki 5.4.15
दीक्षितान् जटिलान् मुण्डान् गः अजिन अम्बर वाससः ।दर्भ मुष्टि प्रहरणान् अग्नि कुण्ड आयुधामः तथा ॥५-४-१५॥
Vālmīki 5.4.16
कूट मुद्गर पाणीमः च दण्ड आयुध धरान् अपि ।एक अक्ष अनेक कर्णामः च चलल् लम्ब पयः धरान् ॥५-४-१६॥
Vālmīki 5.4.17
करालान् भुग्न वक्त्रामः च विकटान् वामनामः तथा ।धन्विनः खड्गिनः चैव शतघ्नी मुसल आयुधान् ॥५-४-१७॥
Vālmīki 5.4.18
परिघ उत्तम हस्तामः च विचित्र कवच उज्ज्वलान् ।नातिस्थूलान् नातिकृशान् नातिदीर्घ अतिह्रस्वकान् ॥५-४-१८॥
Vālmīki 5.4.19
नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् ।विरूपान् बहु रूपामः च सुरूपामः च सुवर्चसः ॥५-४-१९॥
Vālmīki 5.4.20
ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ।शक्ति वृक्ष आयुधामः चैव पट्टिश अशनि धारिणः ॥५-४-२०॥
Vālmīki 5.4.21
क्षेपणी पाश हस्तामः च ददर्श स महा कपिः ।स्रग्विणः त्व् अनुलिप्तामः च वर आभरण भूषितान् ॥५-४-२१॥
Vālmīki 5.4.22
नानावेषसमायुक्तान्यथास्वैरगतान् बहून् ।तीक्ष्ण शूल धरामः चैव वज्रिणः च महा बलान् ॥५-४-२२॥
Vālmīki 5.4.23
शत साहस्रम् अव्यग्रम् आरक्षम् मध्यमम् कपिः ।रक्षोधिपतिनिर्दिष्टम् ददर्शान्तःपुराग्रतः ॥५-४-२३॥
Vālmīki 5.4.24
स तदा तद्गृहम् दृष्ट्वा महाहाटकतोरणम् ।राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥५-४-२४॥
Vālmīki 5.4.25
पुण्डरीकावतम्साभिः परिखाभिरलम्कृतम् ।प्राकार आवृतम् अत्यन्तम् ददर्श स महा कपिः ॥५-४-२५॥
Vālmīki 5.4.26
त्रिविष्टप निभम् दिव्यम् दिव्य नाद विनादितम् ।वाजि हेषित सम्घुष्टम् नादितम् भूषणैः तथा ॥५-४-२६॥
Vālmīki 5.4.27
रथैः यानैः विमानैः च तथा गज हयैः शुभैः ।वारणैः च चतुः दन्तैः श्वेत अभ्र निचय उपमैः ॥५-४-२७॥
Vālmīki 5.4.28
भूषितम् रुचिर द्वारम् मत्तैः च मृग पक्षिभिः ।राक्षस अधिपतेः गुप्तम् आविवेश गृहम् कपिः ॥५-४-२८॥
Vālmīki 5.4.29
सहेमजाम्बूनदचक्रवाLअम् ।महार्ह मुक्तामणिभूषितान्तम् ।परार्थ्यकालागुरुचन्दनाक्तं ।स रावणान्तःपुरमाविवेश ॥५-४-२९॥
Vālmīki 5.4.30
॥ इति रामायने सुन्दरकाण्डे चतुर्थः सर्गः ॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷